2023-03-12 05:01:25 by ambuda-bot
This page has not been fully proofread.
शाङ्करवेदान्तकोशः
-
तद्गताज्ञानमेव वाधते । यथा पटकारणतन्तुदाहे पटदाहस्तथैव सकलप्रपञ्चकारणाज्ञाननाशे
जगत्प्रपञ्चान्तर्गतचित्तवृत्तिरपि नश्यति परब्रह्ममात्रं भवति । यथा - ब्रह्मास्मीत्यखण्डा-
काराकारिता चित्तवृत्तिरुदेति । सा तु चिप्रतिबिम्बसहिता सती प्रत्यगभिन्नमज्ञातं परं
ब्रह्म विषयीकृत्य तद्गताज्ञानमेव बाधते । तदा पटकारणतन्तुदाहे पटदाहवद-
खिलकारणेऽज्ञाने बाधिते सति तत्कार्यस्याखिलस्य बाधितत्वात् तदन्तर्भूताखण्डाकाराकारिता
चित्तवृत्तिरपि बाधिता भवति । तत्र प्रतिबिम्बितं चैतन्यमपि यथा दीपप्रभादित्य-
प्रभावभासनासमर्था सती तयाभिभूता भवति तथा स्वयम्प्रकाशमानप्रत्यगभिन्नपर-
ब्रह्मावभासनानर्हतया तेनाभिभूतं सत् स्वोपाधिभूताखण्डचित्तवृत्तेर्बाधितत्वाद्
दर्पणाभावे मुखप्रतिबिम्बस्य मुखमात्रत्ववत् प्रत्यगभिन्नपरब्रह्ममात्रं भवति । एवञ्च
सति मनसैवानुद्रष्टव्यम्, यन्मनसा न मनुत इत्यनयोः श्रुत्योरविरोधो वृत्तिव्याप्यत्वाङ्गीकारेण
फलव्याप्यत्वप्रतिषेधप्रतिपादनात् । तदुक्तम्- फलव्याप्यत्वमेवास्य शास्त्रकृद्धिर्नि-
वारितम् । ब्रह्मण्यज्ञाननाशाय वृत्तिव्याप्तिरपेक्षिता । इति । स्वयंप्रकाशमानत्वान्नाभास
उपयुज्यते । इति च । जडपदार्थाकाराकारितचित्तवृत्ते र्विशेषोऽरित । तथाहि-
अयं घट इति घटाकाराकारितचित्तवृत्तिरज्ञातं घटं विषयीकृत्य तद्गताज्ञाननिरसनपुरस्सरं
स्वगतचिदाभासेन जडघटमपि भासयति । तदुक्तम्- बुद्धितत्स्थचिदाभासौ द्वावेतौ
व्याप्नुतो घटम् । तत्राज्ञानं धिया नश्येदाभासेन घटः स्फुरेदिति । यथा दीपप्रभा-
मण्डलमन्धकारगतघटपटादिकं विषयीकृत्य तद्गतान्धकार-निरसनपुरस्सरं स्वप्रभया
तदपि भासयतीति (वे० सा० ५८, ५९) ।
३०४
बद्धः – अविद्यानिगडितो जीवः । यथा च - अनेनाल्परूपेण धर्मधर्म्यध्यासात्म-
केनाऽऽत्मा बद्धो निगडितः स्वच्छोऽप्यस्वच्छ इव विज्ञोऽप्यज्ञ इवाऽऽनन्दोऽप्यशनाया-
दिविविधदुःखदावदहनप्रदीप्तशिरा इवानिशं बम्भ्रमीति (सं०शा० ५०सु०टी०) ।
बन्धः - १. जीवस्य मूलतूलाविद्यायोगः अविद्योपरागो वा । यथा-
अविद्यास्तमयो मोक्षः सा च बन्ध उदाहृतः (अ० सि० गौ० ब्र० आदौ) ।२. पारतन्त्र्यं
बन्धः ( स० द० सं० अक्षपादः) । ३. (क) आत्मनः शरीरादिसम्बन्धः । (ख)
मिथ्यादर्शनाविरतिप्रमादकषायवशाद् योगवशाच्चात्मा सूक्ष्मैकक्षेत्रावगाहिनामनन्त-
प्रदेशानां पुद्गलानां कर्मबन्धयोग्यानामादानमुपश्लेषणं यत् करोति स बन्धः । तदुक्तम्
(त० सू० ८२) (स० द० सं० आर्हत०) अन्योन्यं प्रदेशानुप्रवेशे सत्यविभागेनावस्थानं
बन्धः । (स० द० सं० आ०) पारतन्त्र्यं बन्धः (अक्षपादः) अविद्यास्तमयो मोक्ष स
च बन्ध उदाहृतः (अद्वैतिनः) । (न्या० को०)