This page has been fully proofread once and needs a second look.

३०३
 
शावेदान्तकोशः
 
प्रेत्यभावः - , प्रेत्यभाव
(क) पुनरुत्पत्तिः प्रेत्यभावः (गौ० १ । १ । १९) उत्पन्नस्य

क्वचित्सत्त्वनिकाये मृत्वा या पुनरुत्पत्तिः स प्रेत्यभावः। उत्पन्नस्य सम्बद्धस्य सम्बन्धस्तु

देहेन्द्रियमनोबुद्धिवेदनाभिःपुनरुत्पत्तिः पुनर्देहादिभिः सम्बन्धः (वात्स्या० १।१।१९)।

अत्र वृत्तिः । प्रेत्य मृत्वा भावो जननं प्रेत्यभावः । तत्र पुनरित्यनेनाभ्यासकथनात्

प्रागुत्पत्तिस्ततो मरणम् तत उत्पत्तिरिति प्रेत्यभावो जननादिरपवर्गान्तः । एतज्ज्ञानं च

वैराग्य उपयुज्यत इति प्रेत्य इति न व्यर्थम् (गौ० ब्र० १/१/१९) (नील०) । अयं

धर्माधर्माभ्यामुत्पद्यते । अस्यैव च प्रेत्यभावस्य अजरं जरीभाव इति वैदिकी संज्ञा (वै०

उ० ६।२।१५) । प्रेत्यभावश्च आत्मनः पूर्वदेहनिवृत्तिः उत्तरदेहसंघातलाभः इति (त०

भा० पृ० ४०) । पुनर्ग्रहणं संसारानादित्वे ज्ञापनार्थम् । (ख) पूर्वोपात्तशरीरादिपरित्या-

गादन्यशरीरसंक्रान्तिः (न्या० वा० १।१।१९) । (ग) मरणोत्तरं जन्म (दि० १) (त०

दी०) (नील०) (ता०र० श्लो० ३१) । तद्यथा श्रूयते वसिष्ठर्षेरुर्वश्यां पुनरुत्पत्तिः

इति । (घ) जन्ममरणप्रबन्ध: संसार: (वै०3० ६।२।१५) । प्रबन्ध: प्रवाहः (वै०

वि० ६।२।१५) । (ङ) प्रवाहरूपेणानादिसम्बन्धः संसारः (वाच०) । (न्या० को०)

 
प्रेयः - , प्रेयस्
अतिशयेन प्रियः संसारसुखादि । तदतिरिक्तं श्रेयः आत्यन्तिकं

कल्याणम् । यथा- 'वृणुते' क० उ० अविद्यारूपं प्रेयः (तत्रैव २।१ शा० भा० ) ।

यथा च - अभ्युदयार्थी प्रेयसि कर्मणि, अमृतत्त्वार्थी श्रेयसि मोक्षसाधने (तत्रैव २ । १

गो० टी०) । यथा च - या च अविद्या प्रेयोविषया (तत्रैव २।४ शा० भा०) ।
 
-
 

 
फलव्याप्यत्वम् – अद्वैतवेदान्तसम्मतप्रत्यक्षप्रक्रियायां वृत्तिव्याप्यत्वं, फलव्याप्यत्
अद्वैतवेदान्तसम्मतप्रत्यक्षप्रक्रियायां वृत्तिव्याप्यत्
वं
फलव्याप्यत्वं
चाङ्गीक्रियेते । घटादिप्रत्यक्षे घटाकाराकारितान्तःकरणवृत्तौ घटस्य वृत्तिव्याप्यत्वम् ।

अत्रैव घटादिविषयावच्छिन्नचैतन्येन सह प्रमातृचैतत्यस्य अपृथग्भावे = विषयाकार-

वृत्त्युपहितप्रमातृचैतन्यसत्तातिरिक्तसत्ताकत्वशून्यत्वे घटप्रत्यक्षता भवति तेन

उपाधिसहितयोर्द्वयोश्चैतन्ययोरपृथग्भावे घटप्रत्यक्षता फलव्याप्यता । यथा - अयमंत्र

निष्कर्षः- वृत्तिप्रतिबिम्बितचिज्जन्यातिशययोगित्वं वृत्त्या तत्प्रतिफलितचिता वा

अभिव्यक्ताधिष्ठानचिद्विषयत्वं वा फलव्याप्यत्वम् । चिज्जन्यातिशयश्च नावरणभङ्गः

नापि व्यवहारो विवक्षितः । किन्तु भग्नावरणचित्सम्बन्धः । स च घटादावस्ति नात्मनि ।

सम्बन्धस्य भेदगर्भत्वात् (अ० सि० ब्रह्मणः स्व प्रकाश ० ) । इदं च फलव्याप्यत्वं

घटादिजडविषयसाक्षात्कारे भवति ब्रह्मसाक्षात्कारे तु न भवति । ब्रह्मसाक्षात्कारे केवलं

वृत्तिव्याप्पत्वमेवापेक्ष्यते । यदा अहं ब्रह्मास्मीति अखण्डाकाराकारिता चित्तवृत्तिरुदेति

तदा सा चिप्रतिबिम्बसहिता सती प्रत्यगभिन्नमज्ञातं परं ब्रह्म विषयीकृत्य