This page has not been fully proofread.

३०२
 
शाङ्कुरवेदान्तकोशः
 
-
 
१ . सन्निकृष्टग्राहित्वम् । यथा - बाह्येन्द्रियाणाम् । २. विषयदेशं गत्वा विषयप्रकाशकत्वम् ।
यथा - न्यायमते चक्षुरिन्द्रियस्यैव प्राप्यप्रकाशकारित्वम् । गोलकमेव चक्षुः न
तैजसम् इत्युच्छृङ्खलमते तु चक्षुरप्राप्यप्रकाशकार्येव भवति । यदि प्राप्यप्रकाशकारि
स्यात्तदा रसनादिवदधिष्ठानसम्बद्धं गृह्णीयात् । न चैवम् । गोलकासम्बद्धग्रहणात्
इत्यादि (दि० १ तेजो०) । मायावादिमते तु श्रोत्रस्यापि प्राप्यप्रकाशकारित्वम्
(वाचस्०) इति ।
 
-
 
प्रामाण्यं द्विविधम् – एवं निरूपितानां प्रमाणानां प्रामाण्यं द्विविधम्-
व्यावहारिकतत्त्वावेदकत्वं पारमार्थिकतत्त्वावेदकत्त्वं चेति । तत्र ब्रह्मस्वरूपावगाहि-
प्रमाणातिरिक्तानां सर्वप्रमाणानामाद्यं प्रामाण्यम्, तद्विषयाणां व्यवहारदशायां
बाधाभावात् । द्वितीयं तु जीवब्रह्मैक्यपराणां सदेव सोम्येदमग्र आसीत्
(छा० ६।२।१) । इत्यादीनां तत्त्वमसि (छा० ६।८।१ ) इत्यन्तानाम् । तद्विषयस्य
जीवपरैक्यस्य कालत्रयाबाध्यत्वात् ।
 
-
 
प्रारब्धम् – कर्म अदृष्टं वा त्रिविधम् - सञ्चितम् प्रारब्धम् क्रियमाणं च । तत्र
येनादृष्टेन कर्मणा इदं शरीरमारब्धं तत् प्रारब्धम् । यथा - नैष दोषो यतोऽनेकविधं
प्रारब्धमीक्ष्यते । इच्छाऽनिच्छा परेच्छा च प्रारब्धं त्रिविधं स्मृतम् (प० द० ७ । १५२ ) ।
यथा च - अपथ्यसेविनश्चोरा राजदाररता अपि । जानन्त एव स्वानर्थमिच्छन्त्यारब्ध-
कर्मतः (प० द० ७।५३) । यथा च - किन्तु यावत् प्रारब्धकर्मक्षयं सुखदुःखे अनुभूय
पश्चादपवृज्यते । ननु क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे (मु० ३१८)
इत्यादिश्रुत्या ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुते तथा (भ० गी० ४ । ३७) इत्यादि
स्मृत्या च ज्ञानस्य सकलकर्मक्षयहेतुत्वनिश्चये सति प्रारब्धकर्मावस्थानमनुपपन्नमिति
चेत् । न । तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ सम्पत्स्ये (छा० ६।१४।२)
इत्यादिश्रुत्या नाभुक्तं क्षीयते कर्म इत्यादिस्मृत्या चोत्पादितकार्यकर्मव्यतिरिक्तानां
कर्मणामेव ज्ञानविनाशित्वावगमात् (वे० प० ८ प० ) ।
 
-
 
-
 
प्लवः - तारकः यज्ञादिरूपः । यथा- संसारसागरात् प्लवन्ते गच्छन्ति
अस्थायिन इति प्लवाः । अत एवादृढ़ाः (ब्र० सू० १ ।२।२१ भाम०) । यथा च -
प्लवा ह्येते अदृढ़ा यज्ञरूपा अष्टादशोक्तमपरं येषु कर्म एतच्छ्रेयो येऽभिनन्दन्ति
मूढ़ा जरामृत्युं ते पुनरेवापियन्ति (मु० १ ।२।७ ) । इत्येवमादिनिन्दावचनात्
(तत्रैव शा० भा० ) ।