This page has been fully proofread once and needs a second look.

शाङ्कुरवेदान्तप्राणमयकोशः
 
-
 
, प्राणमयकोशः
 

अन्नमयमनोमयप्राणमयविज्ञानमयानन्दमयकोशेष्वन्यतमः
 

क्रियाशक्तिमान् । यथा – इदं प्राणादिपञ्चकं कर्मेन्द्रियैः सहितं सप्राणमयकोशो

भवति । अस्य क्रियात्मकत्वेन रजोंऽशकार्यत्वम् । एतेषु कोशेषु मध्ये विज्ञानमयो

ज्ञानशक्तिमान् कर्तृरूपः । मनोमय इच्छाशक्तिमान् करणरूपः । प्राणमयः

क्रियाशक्तिमान् कार्यरूपः । .... स्थूलशरीरमन्नविकारत्वादेव हेतोरन्नमयकोशो

जाग्रदिति चोच्यते । ..... अस्य प्राज्ञत्वमस्पष्टोपाधितयाऽनतिप्रकाशत्वात् अस्यापीद-

महङ्कारादिकारणत्वात् कारणशरीरम् । आनन्दप्रचुरत्वादाकाशवदाच्छाकत्वाच्चानन्दमय-

कोशः सर्वोपरमत्वात् सुषुप्तिः (वे० सा० ) । यथा च - स्यात्पञ्चीकृतभूतोत्थो देहः

स्थूलोऽन्नसंज्ञकः । लिङ्गे तु राजसैः प्राणैः प्राणः कर्मेन्द्रियैः सह (प० द० १ ।३४) ।

यथा च - तद्विजिज्ञापयिषयैवान्नमयादयः आनन्दमयपर्यन्ताः पञ्चकोशाः कल्प्यन्ते

( ब्र० सू० १ । १ । १९) ।
 
-
 
-
 
-
 
-
 

 
प्रातिभासिकम्, प्रातिभासिक
सत्त्वं त्रिविधम् - पारमार्थिकम्, व्यावहारिकम्, प्रातिभासिकञ्चेति ।

लौकिकेन प्रमाणेन यद् बाध्यं तत् प्रातिभासिकं सत्त्वम् । यथा - शुक्तौ रजतमिति

ज्ञानम्, रज्जौ सर्प इति ज्ञानादि । यथा - प्रातिभासिकं रजतं चाविद्यापेक्षया परिणामः,

चैतन्यापेक्षया विवर्त इति चोच्यते । अविद्यापरिणामरूपं च तदुजतमविद्याधिष्ठाने

इदमवच्छिन्नचैतन्ये वर्तते । अस्मन्मते सर्वस्यापि कार्यस्य स्वोपादानाविद्याधिष्ठाना-

श्रितत्वनियमात् । ननु चैतन्यनिष्ठस्य रजतस्य कथमिदं रजतमिति पुरोवर्तितादात्यम् ।

उच्यते । यथा न्यायमते आत्मनिष्ठस्य सुखादेः शरीरनिष्ठत्वेनोपलम्भः । शरीरस्य

सुखाद्यधिकरणतावच्छेदकत्वात् । तथा चैतन्यमात्रस्य रजतं प्रत्यधिष्ठानतया

इदमवच्छिन्नचैतन्यस्य तदधिष्ठानत्वेन इदमोऽवच्छेकतया रजतस्य पुरोवर्ति-

संसर्गप्रत्यय उपपद्यते । तस्य च विषयचैतन्यस्य तदन्तःकरणोपहितचैतन्याभिन्नतया

विषयचैतन्याध्यस्तमपि रजतं साक्षिण्यध्यस्तं केवलसाक्षिवेद्यं सुखादिवदनन्यवेद्यमिति

चोच्यते (वे० प० १ प०) ।
 
-
 

 
प्राप्यप्रकाशकारित्वम् - , प्राप्यप्रकाशकारित्व
विषयान् प्राप्य प्रकाशं कर्तुं शीलं यस्य तत् प्राप्य-

प्रकाशकारि तस्य तत्त्वम् । इन्द्रियाणां प्राप्यप्रकाशकारित्वम् । कञ्चिद् इन्द्रियं विषयदेशं

गत्वा विषयं प्राप्य प्रकाशयति । यथा- आत्मा मनसा संयुज्यते मन इन्द्रियेण इन्द्रियमर्थेन

ततः प्रत्यक्षज्ञानमुत्पद्यते (त० सं० दी० प्र० ख०) । यथा च - एते प्रदीपकल्पाः परस्पर-

विलक्षणा गुणविशेषाः । कृत्स्नं पुरुषस्यार्थं प्रकाश्य बुद्धौ प्रयच्छन्ति (सा० का० ३६) ।