This page has not been fully proofread.

३००
 
शाङ्कुरवेदान्तकोशः
 
-
 
-
 
यथा च - अत एव प्राणः इत्यत्र वर्णितं प्राणशब्दस्य ब्रह्मपरत्वम् । इहापि
ब्रह्मलिङ्गमस्ति - आनन्दोऽजरोऽमृतः इत्यादि (ब्र० सू० १/१/२८ शा० भा० ) ।
६.हिरण्यगर्भः (सूत्रात्मा) । यथा - एतत्समष्ट्युपहितं चैतन्यं सूत्रात्मा हिरण्यगर्भः
प्राणश्चेत्युच्यते सर्वत्रानुस्यूतत्वाज्ज्ञानेच्छाक्रियाशक्तिमदुपहितत्वाच्च । ७. समन-
स्कानीन्द्रियाणि । यथा - द्वादशं यज्ञमाह अपरे इति । नियतो निगृहीत आहारो
विषयभोगो यैस्ते नियताहाराः वैराग्यादिमन्तः प्राणाः । अत्र समनस्कानीन्द्रियाणि
प्राणशब्देन गृह्यन्ते । तान्प्राणेषु मनश्चित्ताहङ्कारेष्वन्तःकरणवृत्तिभेदेषु । बुद्धेः
प्राग्गृहीतत्वादग्रहणम् । जुह्वति प्रविलापयन्ति ( गी० ४ । ३० नी० क ० ) । यथा च
५. इन्द्रियरूपः । यथा - प्राणो वा अमृतं करणात्मकः (बृ० आ० उ० १ । ६ । ३ शा०
भा० ) । यथा च - सर्वे प्राणा वागादयः (तत्रैव २ । १ । २० शा० भा० ) 1६.बलरूपः ।
यथा – शक्तिः प्राणो बलमिति पर्याय: (तत्रैव २ ।२।१ शा० भा०) ।७. पृथिव्यादीनां
रजोंऽशैः प्राणो जायते (प० द० १ । २२ तत्त्वविवेकः) ।८. परमात्मन एव..... (बृ०
आ० उ० २।१।२० मु० उ० २/१/३, प्र० उ० ६।२४, ब्र० सू० २।४।१ ) ।
प्राणा:- एक दश एकादश द्वादश च (ब्र० सू० २/४/५-६, बृ० आ० उ०
१/५/२१, तत्रैव १ ।६।३, तत्रैव २ । १ । २०शा० भा०) श०प० ब्रा० १० ।३।३।६ ) ।
शरीरे शक्तिद्वयम् - क्रियात्मिका ज्ञानात्मिका च । तत्र क्रियात्मिका प्राणः । यथा -
कार्यात्मके शरीरावस्थे क्रियात्मकस्तु प्राणः (बृ० आ० उ० १ ।६।३ शा० भा० ) ।
९. महत्तत्त्वम् बुद्धिः । यथा - एका क्रियात्मिका शक्तिः प्राणः अपरा अध्यवसा-
यात्मिका शक्तिः बुद्धिः । (ब्र०सू० २/४/१३ वि० भा०, सि० हे० सं० २ जीवाणु-
विचारे, ब्र० सू० १ १/२३, २१४/१३ शा०, भा०, सा०, प्र० भा०, अथर्ववेदे उक्तं
चराचरेषु) । सिद्धान्तलेशसंग्रहे - विज्ञानभिक्षुसांख्यप्रवचनभाष्ये च ।१०. हिरण्यगर्भाख्यं
कार्यं ब्रह्म । यथा - अतो निगमनवाक्यमुपक्रमानुरोधात् प्राणं हिरण्यगर्भाख्यं कार्यं
ब्रह्म । तदाकाशं परब्रह्मरूपं सुखविशिष्टाकाशं चोचुरित्येदर्थकमिति न विरोध इत्यपि
द्रष्टव्यम् (ब्र० सू० १ ।२।१५ वे० क० त० प०) । अथर्ववेदे उक्तं चराचरेषु सर्वेषु
विकासात्यिका शक्तिः प्राण एव । यथा- यप्राणा ऋतावागतेऽभिक्रन्दत्यौषधीः ।
सर्वस्तदा मोदते यत् किञ्च भूम्यामधि (अ० वे०१।६।४) । यदा प्राणो अभ्यवर्षीद्
वर्षेण पृथिवीं महीम् (तत्रैव ५) अभिवृष्टा ओषधयः प्राणेन समवादिरन् (तत्रैव
६) ११. ब्रह्म । ब्र० सू० प्राणाधिकरणे १/१/२३ प्रतर्दनाधि० १/१/२८ शा०
भा० प्रसाधितम् ।
 
-
 
-