2023-03-12 05:01:24 by ambuda-bot
This page has not been fully proofread.
शाङ्कुरवेदान्तकोशः
………..........
अस्य प्राज्ञत्वमस्पष्टोपाधितयाऽनतिप्रकाशकत्वात् अस्यापीदमहङ्कारादिकारण-
त्वात्कारणशरीरम्, आनन्दप्रचुरत्वात् स्थूलसूक्ष्मशरीरप्रपञ्चलयस्थानमिति
.......
चोच्यते । यथा च - अविद्यावशगस्त्वन्यस्तद्वैचित्र्यादनेकधा । सा कारणशरीरं स्याप्राज्ञ-
स्तत्राभिमानवान् (प० ६० १।१७) । यथा च - तत्र कारणशरीरेऽभिमानवान्
तादाल्याध्यासेनाहमित्यभिमानवान् जीवः प्रज्ञा अविनाशिस्वरूपानुभवरूपा यस्य स
प्रज्ञः । प्रज्ञ एव प्राज्ञः एतन्नामकः स्यादित्यर्थः (तत्रैव रा० कृ० टी०) । यथा च - ज्ञातृत्वं
सर्वविषयज्ञातृ इति प्राज्ञः सुषुप्तोऽपि हि भूतपूर्वगत्या प्राज्ञ उच्यते अथवा प्रज्ञप्ति-
मात्रमस्यैवासाधारणं रूपमिति प्राज्ञः । इतरयोर्विशिष्टमपि विज्ञानमस्ति सोऽयं
प्राज्ञस्तृतीयः पादः (मा० उ० १।३ शा० भा०) ।
-
प्राणः – १ . क्रियाशक्तिः । यथा - प्राणः क्रियाशक्तिः परमार्थतो न विद्यते
यस्य सोऽप्राणः ( ब्र० सू० १ । १ । ४ वे० क० त०) । २. हृदयगतो वायुविशेषः ।
यथा - प्राणिति मुखनासिकाभ्यां वायुं बहिर्निःसारयति स प्राणाख्यो वायुर्वृत्तिविशेषः
(छा० उ० १ । ३ । ३ शा० भा०) । यथा च -"पञ्चवृत्तिर्वायुः प्राणः (ब्र० सू०१ । ३ । ३९
शा० भा०) । ३. तस्मादव्याकृतात् व्याचिकीर्षितादन्नाप्राणः (ब्र० सू०१।१।५
भाम०) ४. इन्द्रियेभ्यः प्राणस्य श्रैष्ठ्यम् (प्राण विद्या) । यथा - एक एव प्राणः
प्राणो वा व संवर्गः (छा० ४।३।३) । प्राणो वा व ज्येष्ठश्च श्रेष्ठश्च (छा०
५।१।१ ) । प्राणो ह पिता प्राणो माता (तत्रैव ७/१५/१) (ब्र० सू० ३।३।५८
शा० भा० ) । यथा च - सर्वाणि ह वा इमानि भूतानि प्राणमेवाभिसंविशन्ति प्राणम-
भ्युज्जिहते सैषा देवता प्रस्तावमन्वायत्ता (छा० १/११/४,५) प्राणस्य प्राणम्
(बृ० आ० उ० ४।४।१८ ) । इति चैवमादौ ब्रह्मविषयः प्राणशब्दो दृश्यते (ब्र०
सू० १/१ । २३ शा० भा० ) । ४. सद् इतिवत् । यथा- वाक्यशेषो हि तत्रायतनैषी
जीवः सदुपसर्पतीत्याह- अन्यत्रायतनमलब्ध्वा प्राणमेवोपश्रयते (छा० ६।८।२) ।
इति । प्राणशब्देन तत्र प्रकृतस्य सत उपादानात् (ब्र० सू० ३।२।७ शा० भा० ) ।
५. ब्रह्मवत् । यथा – तत्र अत एव ब्रह्मलिङ्गादेव प्राणोऽपि ब्रह्मैव, न वायुविकार
इति युक्तम् (ब्र० सू० १ । १ । २३ भाम० ) । यथा च - प्राणबन्धनं हि सोम्य मनः
(छा० ६।८।२) । प्राणस्य प्राणम् (बृ० आ० उ० ४।४।१८) । इति चैवमादौ
ब्रह्मविषयः प्राणशब्दो दृश्यते ... । अत एव तल्लिङ्गात् प्राणशब्दमपि परं ब्रह्म
भवितुमर्हति । प्राणस्यापि ब्रह्मलिङ्गसम्बन्धः श्रूयते - सर्वाणि ह वा इमानि भूतानि
प्राणमेवाभिसंविशन्ति प्राणमभ्युज्जिहते (छा० १ ।११।५ ) । इति प्राणानिमित्तौ सर्वेषां
भूतानामुत्पत्तिप्रलयावुच्यमानौ प्राणस्य ब्रह्मतां गमयतः (ब्र० सू० १ । १ । २३शा० भा०) ।
-
.…...