This page has been fully proofread once and needs a second look.

शाङ्करवेदान्तकोशः
 
प्रस्तावः -
प्रस्तावः, प्रस्ताव
सामगाने प्रस्तावो भवति । तस्यानेकेऽर्थाः । १. आदित्यः । यथा -

आदित्यः प्रस्तावः । उदिते ह्यादित्ये प्रस्तूयन्ते कर्माणि प्राणिनाम् (छा० उ० २/२/२

शा० भा० ) । यथा च - २. भक्तिः (कश्चन प्रकारः) । प्रस्तावः । अग्नौ हि कर्माणि

प्रस्तूयन्ते । प्रस्तावश्च भक्तिः (छा० उ० २।२।१ शा० भा० ) । यथा च - अतः सैषा

देवता प्रस्तावमन्वायत्त तां चेदविद्वांस्त्वं प्रास्तोष्यः । प्रस्तवनं प्रस्तावभक्तिं कृतवानसि

यदि मूर्धा शिरस्ते व्यपतिष्यत्..... (छा० उ० १।११।५ शा० भा० ) ।
 

 
प्राकृतप्रलयः- , प्राकृतप्रलय
सृष्टिनाशस्यैको भेदः । यथा - प्राकृतप्रलयस्तु कार्यब्रह्मविनाश-

निमित्तिकसकलकार्यनाशः । यदा तु प्रागेवोत्पन्नब्रह्मसाक्षात्कारस्य कार्यब्रह्माणो

ब्रह्माण्डाधिकारलक्षणप्रारब्धकर्मसमाप्तौ विदेहकैवल्यात्मिका परा मुक्तिः तदा

तल्लोकवासिनामप्युत्पन्नब्रंह्मसाक्षात्कारणां ब्रह्मणा सह विदेहकैवल्यम् । ब्रह्मणा

सह ते सर्वे सम्प्राप्ते प्रतिसञ्चरे । परस्यान्ते कृतात्मानः प्रविशन्ति परं पदमिति

श्रुतेः । एवं स्वलोकवासिभिः सह कार्ये ब्रह्मणि मुच्यमाने तदधिष्ठितब्रह्माण्ड

तदन्तर्वर्तिनिखिललोकतदन्तर्वर्तिस्थावरादीनां भौतिकानां भूतानां च प्राकृतौ मायायां

च लयः न तु ब्रह्मणि, बाधरूपविनाशस्यैव ब्रह्मनिष्ठत्वात् । अतः प्राकृत इत्युच्यते ।

(वे० प० ७ प०)
 
२९८
 
-
 

 
प्रागभावः - , प्रागभाव
स चाभावश्चतुर्विधः प्रागभावः प्रध्वंसाभावोऽत्यन्ताभावोऽन्योन्या

भावश्चेति । तत्र मृत्पिण्डादौ कारणे कार्यस्य घटादेरुत्पत्तेः पूर्वं योऽभावः स

प्रागभावः स च भविष्यतीति प्रतीतिविषयः । तत्रैव घटस्य मुद्गरपातानन्तरं योऽभावः

स प्रध्वंसाभावः । ध्वंसस्यापि स्वाधिकरणकपालनाशे नाश एव । ....यत्राधिकरणे

यस्य कालत्रयेऽप्यभावः सोऽत्यन्ताभावः । यथा वायौ रूपात्यन्ताभावः । सोऽपि

घटादिवद्ध्वंसप्रतियोग्येव । इदमिदं नेति प्रतीति-विषयोऽन्योन्याभावः । अयमेव

विभागो भेदः पृथक्त्वं चेति व्यवह्रियते (वे० प० ६ प०) । यथा च - अनादि: सान्तः

प्रागभावः उत्पत्तेः पूर्वं कार्यस्य । सादिरनन्तः प्रध्वंसः उत्पत्त्यनन्तरं कार्यस्य ।

त्रैकालिकसंसर्गाविच्छिन्नप्रतियोगिताकोऽत्यन्ताभावः । यथा भूतले घटो नास्तीति ।

तादाल्यसम्बन्धावच्छिन्नप्रतियोगिताकोऽन्योन्याभावः । यथा घटः पटो नेति (त०
 
-
 

सं० श० प० ) ।
 

 
प्राज्ञः
 
-
 
, प्राज्ञ
जीवः । यथा - इयं व्यष्टिर्निकृष्टोपाधितया मलिनसत्त्वप्रधाना ।

एतदुपहितचैतन्यमल्पज्ञत्वानीश्वरत्वादिगुणकं प्राज्ञ इत्युच्यते, एकाज्ञानावभासकत्वात्