This page has not been fully proofread.

२९७
 
अत्रानन्दगिरिः
 
श्रवणमननयोरावृत्तिस्त्वया प्रसंख्यानमभ्युपेतम् । यथा च-
प्रसंख्यानं नाम तत्त्वमस्यादिशब्दार्थान्वयव्यतिरेकयुक्तिविषयबुद्धयाम्रेडनमित्यभिधीयते ।
तच्चानुष्ठीयमानं प्रमितिवर्द्धनया परिपूर्णां प्रमितिं जनयति न पुनरैकाग्र्यवर्द्धनया
(नै० सि० ३।९०) । यथा च प्रसंख्यानस्य चित्तैकाग्र्यस्य (तत्रैव ३।८९) । यथा
 
-
 
च - प्रत्ययावृत्तिलक्षणं प्रसंख्यानम् (गी० १०/११ नी० क०) ।२. विवेकजं ज्ञानम् ।
यथा - तत्परं प्रसंख्यानमाचक्षते ध्यायिनः (पा० यो० सू० १/२ व्या० भा० तथात्र
बलरामोदासीनटी०) । ३. विवेकसाक्षात्कारः । यथा - प्रसंख्यानेऽकुसीदस्य सर्वथा
विवेकख्यातेर्धर्ममेघः समाधिः (पा० यो० सू० ४।२९ योगवार्त्तिके) । आचार्यबाद-
रायणमण्डनमिश्रवाचस्पतिमिश्रामलानन्दश्रीधरमधुसूदनसरस्वतीप्रभृतय एवमभि-
प्रथन्ति यद् दशमस्त्वमसि इति वाक्यजन्यबोधसाक्षात्कारवत् तत्त्वमसि (छा० उ०
६।८।७) । इत्यादिमहावाक्यादिना ब्रह्मसाक्षात्कारो न जायते । किन्तु महावाक्येन केवलं
ब्रह्म विज्ञायते । तदनन्तरम् उपासनया साक्षात्क्रयते । अत एव - विज्ञाय प्रज्ञां कुर्वीत
(बृ० आ० ३।४।४।२१ ) । इत्यादि श्रुतयः सङ्गच्छन्ते । प्रज्ञामित्यस्य उपासनाम्
इत्यर्थः । इयमुपासना प्रसंख्यानशब्देनाभिधीयते । श्रीमण्डनप्रभृतयः कथयन्ति प्रमाणेन
मिथ्यावभासा निवर्तन्ते । किन्तु कारणविशेषात्पुनरपि अनुवर्तन्ते । यथा देशान्तरे गते
दिग्भ्रमो जायते । आप्तोपदेशाद् निवर्तते पुनरपि अनुवर्तते । किन्तु अभ्यासेन ज्ञानं
यदा दृढं क्रियते तदा न पुनः दिग्भ्रमोऽनुवर्तते । एवमेव श्रुतिवचनेन ब्रह्म विज्ञाय
प्रसंख्यानेन अर्थात् तद्ध्यानेन उपासनया वा मिथ्यावभासा निवर्तन्ते ब्रह्म साक्षात्
क्रियते (ब्र० सि० ब्र० का ० २ तथा नि० का० का० १०९) । अपि च संराधने प्रत्यक्षानु-
मानाभ्याम् । (ब्रा० सू० ३ । २ । २४) इत्यपि प्रमाणम् । अमलानन्दः ब्र० सू० १ ।१।२८
भामतीव्याख्याने प्रसंख्यानपक्षं समर्थयति । सुरेश्वराचार्य: विज्ञाय प्रज्ञां कुर्वीत (बृ०
आ० उ० ४।४।२१) । इत्यस्यार्थमेवं करोति - महावाक्येन ब्रह्मयाथाल्यमलब्ध्वा प्रज्ञां
कुर्वीत केनेति व्यपेक्षायां विज्ञानेनेति लभ्यते । सुरेश्वराचार्य: बृ० आ० भा० वा० ८०३,
४/४/७९६,४/४/८९१, नैष्कर्म्यसिद्धौ ३/७०, ३८९ प्रसंख्यान पक्षं भृशमालोचितवान् ।
 
-
 
शाङ्कुरवेदान्तकोशः
 
-
 
प्रसादः चित्तस्वच्छता । यथा परमात्मसाक्षात्कारयोग्यता जायते । यथा -
प्रसादः प्रसन्नता स्वास्थ्यम् । प्रसादे सर्वदुःखानामाध्यात्मिकादीनां हानिर्विनाशोऽस्य
यतेरुपजायते (गी० २।६४ शा० भा० ) । यथा च - प्रसादं प्रसन्नतां चित्तस्य स्वच्छतां
परमात्मसाक्षात्कारयोग्यतामधिगच्छति (तत्रैव म० सू०) ।
 
-