This page has been fully proofread once and needs a second look.

शाङ्करवेदान्तकोशः
 
प्रविविक्तभुक् - , प्रविविक्तभुज्
जाग्रदादिषु तिसृसु अवस्थासु आनन्दभुक् । यथा - स्वप्ने भोक्तृ

त्रिषु धामसु जाग्रदादिषु स्थूलप्रविविक्तानन्दाख्यं भोज्यमेकं त्रिधाभूतम् (मा० उ० प्र०

१।४ शा० भा०) ।
 

 
प्रवृत्तिः , प्रवृत्ति
१. प्रयत्नः । क- उत्कटरागजन्यः प्रयत्नविशेषः (वै० वि०

३।१।१९) लयणं तु प्रवृत्तित्वमेव । तच्च रागजन्यतावच्छेदकतया सिद्धो जातिविशेषः

(गौ० वृ० १।१।१७) । चिकीर्षाजन्यतावच्छेदको जातिविशेषो वा (मू० म० १) (ल०

व० पृ० १३७) चेष्टा जनकतावच्छेदकतया सिद्धो जातिविशेषो वा (श० प्र० श्लो०

९५ पृ० १३७) । प्रवृत्त्युत्पत्तावयं क्रमः । प्रथमतः फलज्ञानम् । ततः फलेच्छा । तत

इष्टसाधनताज्ञानमुपाये । तत उपायेच्छा । ततः प्रवृत्तिरुत्पद्यत इति ( त० प्र० ख० ४

पृ० १०३) । न्यायकोशः ।
 

 
प्रवृत्तिविज्ञानम्- , प्रवृत्तिविज्ञान
बौद्धविज्ञानवादियोगाचारनये प्रवृत्तिविज्ञानमालयविज्ञानं च

भवतः । तत्र यथा – तथा चैकालयज्ञानसन्तानपतितेषु कस्यचिदेव ज्ञानक्षणस्य

स तादृशः सामर्थ्यातिशयो वासनापरनामा स्वप्रत्ययासादितः यतो नीलाकारं प्रवृत्ति-

विज्ञानं जायते न पीताकारम् (ब्र० सू० २।२।२८ भाम०) । यथा च - यश्चासावालय-

विज्ञानसन्तानातिरिक्तः कादाचित्कप्रवृत्तिज्ञानहेतुः स बाह्योऽर्थः (तत्रैव भाम० ) ।

अत्र वेदान्तकल्पतरौ - अहमित्युदीयमानालयविज्ञानेन जन्यमानास्तदतिरिक्तजन्यत्वा-

जन्यत्वाभ्यां विवादाध्यासिताः शब्दस्पर्शरूपरसगन्धसुखादिविषयाः षडप्यर्थविषय-

प्रवृत्तिहेतुत्वात् प्रवृत्तिप्रत्ययाः सत्यप्यालयविज्ञानसन्ताने कदाचिद्भवन्तस्तदति-

रिक्तहेतुका इत्यर्थः । अर्थान्तरमाशङ्क्याह यश्चेति । यथा च तस्यां सन्ततौ प्रवृत्ति-

विज्ञानानि नीलादिविषयाणि तज्जननशक्तिर्वासना इत्यर्थः । तत्प्रत्येति प्रत्यागच्छति

उत्पद्यतेऽनेन परिपाक इति प्रवृत्तिविज्ञानजनकालयविज्ञानात् पूर्वमालयविज्ञान-

सन्ताने यदाकदाचिदुत्पन्नो नीलादिप्रत्ययः प्रत्यय इति (तत्रैव वे० क० तरौ) ।
 
-
 
-
 

 
प्रसंख्यानम् - , प्रसंख्यान
१. ध्यानम्, आम्रेडनम् आवृत्तिर्वा । यथा - तत्त्वमसि-

वाक्यार्थपरिभावनाभुवा प्रसंख्यानेन (ब्र० सू० ४।१।१३ भाम०) । यथा च -

तापत्रयपरीतमात्मानं च जीवलोकं चावलोक्यास्मिन् संसारमण्डले अनित्याशुचि-

दुःखात्मकं प्रसंख्यानमुपावर्तते । ततोऽस्यैतादृशान्नित्यानित्यवस्तुविवेकलक्षणात्प्र-

संख्यानात् - इहामुत्रार्थभोगविरागो भवति (ब्र० सू० १ 19 19 भाम०) । यथा च -

आवृत्तिर्हि प्रसंख्यानं शब्दबुद्ध्योरिति स्थितम् (बृ० आ० उ० भा० वा० सं० वा० )।