2023-03-12 05:01:23 by ambuda-bot
This page has not been fully proofread.
शाङ्करवेदान्तकोशः
२९५
ब्रह्मणा सह ते सर्वे सम्प्राप्ते प्रतिसंचरे । परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम् । इति
श्रुतेः । एवं स्वर्लोकवासिभिः सह कार्ये ब्रह्मणि मुच्यमाने तदधिष्ठितब्रह्माण्ड-
तदन्तर्वर्तिनिखिललोकतदन्तर्वर्तिस्थावरादीनां भौतिकानां भूतानां च प्रकृतौ मायायां च
लयः न तु ब्रह्मणि बाधरूपविनाशस्यैव ब्रह्मनिष्ठत्वात् । अतः प्राकृत इत्युच्यते ।
कार्यब्रह्मणो दिवसावसाननिमित्तस्त्रैलोक्यप्रलयः नैमित्तिकप्रलयः । ब्रह्मणो
दिवसश्चतुर्युगसहस्रपरिमितकालः । चतुर्युगसहस्राणि ब्रह्मणो दिनमुच्यते इति वचनात् ।
प्रलयकालो दिवसकालपरिमितः । रात्रिकालस्य दिवसकालतुल्यत्वात् । प्राकृतप्रलये
नैमित्तकप्रलये च पुराणवचनानि द्विपराद्धुत्वतिकान्ते ब्रह्मणः परमेष्ठिनः । तदा
प्रकृतयः सप्त कल्प्यन्ते प्रलयाय हि । एष प्राकृतिको राजन् प्रलयो यत्र लीयते । इति
वचने प्राकृतप्रलये मानम् । एष नैमित्तिकः प्रोक्तः प्रलयो यत्र विश्वसृक् । शेतेऽनन्तासने
नित्यमात्मसात्कृत्य चाखिलम् । इति वचनं नैमित्तकप्रलये मानम् । तुरीयप्रलयस्तु
ब्रह्मसाक्षात्कारनिमित्तकः सर्वमोक्षः । स चैकजीववादे युगपदेव । नानाजीववादे तु
क्रमेण । "सर्व एकीभवन्ति" इत्यादिश्रुतेः । तत्राधास्त्रयोऽपि प्रलयाः कर्मोपरतिनिमित्ताः ।
तुरीयस्तु ज्ञानोदयनिमित्तो लयोऽज्ञानेन सहैवेति विशेषः । एष चतुर्विधप्रलयो
निरूपितः । (वे० प० ७ प०) ततश्च पुनः पूर्ववत् सृष्टिः । यथा श्रुतिः - धाता 'यथा
पूर्वमकल्पयत् (ऋ० वे० १०।१९०।३) । इत्यद्वैतवेदान्तिनः । २. संसारप्रवाहस्य
अनादित्वादनन्तत्वाच्च प्रलयसद्भावे मानाभावः । इति पूर्वमीमांसकाः । ३.
दोधूयमानास्तिष्ठन्ति प्रलये परमाणवः (प्र० पा० भा० क०) । अदृष्टसंस्कारविशिष्टात्मानः
आकाशादयश्च अवतिष्ठन्ते, तदा यावान् जगत्स्थितिकालस्तावानेव कालः
प्रलयकालः । खण्डप्रलयःअवान्तरप्रलयः महाप्रलयश्चेति । महाप्रलयानन्तरं न सृष्टिः ।
सर्वमुक्तौ सर्वोत्पत्तिनिमित्तस्यादृष्टस्यापायादिति । (प्र० पा० भा०) सृष्टिक्रमश्च
साकारोपासनापरिवासितचेतसो यतयस्ते हिरण्यगर्भपदवीमनुप्राप्यापवृज्यन्ते-इत्यागमाद्
ब्रह्मणो जीवभूतस्य ब्रह्मशतवर्षपर्याप्तस्य अपवर्गसमये शरीरिणां विश्रान्त्यर्थम्
ईश्वरस्य संजिहीर्षा जायते । .....सर्वेषां जीवानां युगपददृष्टवृत्तिनिरोधो भवति ( त०
१० पृ० १२५) । .....ततः परमाणुद्वयविभागः ततस्त्र्यणुकनाशः । एवं क्रमेण जगतः
प्रलयः नाशोऽभावो वेति नैयायिकाः (न्यायकोशः) ।
-
प्रवर्तकम् – प्रवृत्तिजनकम् । अर्थाद् बलवदनिष्टाननुबन्धीष्टसाधनत्वे सति
कृतिसाध्यताविषयकं ज्ञानं प्रवर्तकम् । तेन मधुविषसम्पृक्तान्नभोजने न प्रवृत्तिः।
पूर्वमीमांसकनये अहरहः सन्ध्यामुपासीत तथा स्वर्गकामो यजेत इत्यादि चोदनावाक्यं
प्रवर्तकम् ।