This page has not been fully proofread.

२९४
 
शाङ्करवेदान्तकोशः
 
-
 
प्रमेयम् - आत्मा शरीरम् इन्द्रियम् अर्थः बुद्धि मनः प्रवृत्तिः दोषः प्रेत्यभावः फलं
दुःखमपवर्गश्च (गौ० १।१।९) इति । अत्र अर्थः प्रमेयत्वं च तत्त्वज्ञाननियामकता-
वच्छेदकमिति ज्ञेयम्। २. परिच्छेद्यम्, ३. अवधारणविषयः (अवधार्यम्) इति
काव्यज्ञाः आहुः (न्यायकोशः) ।
 
प्रमेयचैतन्यम् – विषयाधिष्ठानभूतं चैतन्यम् । यथा - अत एव वृत्तिविषयावच्छिन्न-
चैतन्यात् प्रागज्ञानमस्तीत्यभिप्रायेण विषयात्प्रागज्ञानमस्तीति साधूक्तम् । तस्माद-
धिष्ठानचैतन्यं स्वाध्यस्तं भासयतीति सिद्धम् । तदयमत्र निष्कर्षः- यद्यपि विषयप्रकाशकं
विषयाधिष्ठानभूतं प्रमेयचैतन्यम्, अन्तःकरणावच्चिन्नचैतन्यं तु तस्य प्रमातृ,
अन्तःकरणवृत्यवच्छिन्नचैतन्यं तु प्रमाणम् ( अ० सि० १ प० ) । यथा च - प्रमेय -
चैतन्यमिति । जीवचैतन्यस्य भासकत्वपक्षेऽपि तदभास्यं घटाद्यवच्छिन्नं चैतन्यम्,
मनोवृत्तेस्तादाकारत्वात्, घटादेस्तु तदवच्छेदकत्वस्यैव स्वीकारात् घटादिकं तु
तादृश्या प्रमेयचिता भास्यते (तत्रैव गौ० ब्र०) ।
 
-
 
प्रलयः - १. विनाशः संहर्त्ता वा । यथा - प्रलीयते विश्वमस्मिन्निति प्रलयः ।
यवा प्रलीयतेऽनेनेति प्रलयः संहर्त्ता (गी० ९/१९ भाष्यो०) । यथा च - करणार्थी
चोत्पत्तिप्रलयशब्दौ क्रियामात्रस्य पुरूषान्त्रगोचरत्वसम्भवात् (गी० ३।३७ शा०
भा०) । यथा च - प्रलयो नाम त्रैलोक्यनाशः स च चतुर्विधः - नित्यः प्राकृतो
नैमित्तिक आत्यन्तिकश्चेति । तत्र नित्यः प्रत्ययः सुषुप्तिः । तस्याः सकलकार्यप्रलय-
रूपत्वात् । धर्माधर्मपूर्वसंस्काराणां च तदा कारणत्मनावस्थानम् । तेन सुषुप्तोत्थितस्य
न सुखदुः खाद्यनुभवानुपपत्तिः । न वा स्मरणानुपपत्तिः । न च सुषुप्तावन्तःकरणस्य
विनाशे तदधीनप्राणादिक्रियानुपपत्तिः । वस्तुतः श्वासाद्यभावेऽपि तदुपलब्धेः
पुरुषान्तरविभ्रममात्रत्वात् सुप्तशरीरोपलम्भवत् । न चैवं सुप्तस्य परेतादविशेषः ।
सुप्तस्य हि लिङ्गशरीरं संस्कारात्मनात्रैव र्वतते । परेतस्य तु लोकान्तरे इति वैलक्षण्यात् ।
तत्र ज्ञानशक्तिविशिष्टान्तःकरणस्य सुषुप्तौ विनाशः । न क्रियाशक्तिविशिष्टस्येति
प्राणाद्यवस्थानमविरुद्धम् । यदा सुप्तः स्वप्नं न कञ्चन पश्यति अथास्मिन् प्राण
एवैकधा भवति । अथैनं वाक् सर्वैर्नामभिः साहाय्यमेति (कौ० ३।२) । "सता सोम्य
तदा सम्पन्नो भवति स्वमपीतो भवति" (छा० ६।८।१ ) । इत्यादिश्रुतिरुक्तसुषुप्तौ
मानम् । प्राकृतप्रलयस्तु कार्यब्रह्मविनाशनिमित्तकः सकलकार्यनाशः । यदा तु प्रागेवोत्पन्न-
ब्रह्मसाक्षात्कारस्य कार्यब्रह्मणो ब्रह्माण्डाधिकारलक्षणप्रारब्धकर्मसमाप्तौ विदेहकैवल्यात्मिका
परामुक्तिस्तदा तल्लोकवासिनामप्युत्पन्नब्रह्मसाक्षात्काराणां ब्रह्मणा सह विदेहकैवल्यम् ।