This page has been fully proofread once and needs a second look.

शाङ्कवेदान्तकोशः
 
२९३
 
-
 
तन्नैवमिति (नील० प्रामा० पृ० ३५) (न्यायकोश: पृ० ३१२) । ३. प्रमात्वम् -

तत्प्रकारकज्ञानत्वम् (गौ० वृ० ११४) तद्वति तद्वैशिष्ट्यज्ञानत्वं वा (चि० १

प्रामा० पृ० १७०) । वस्तुतस्तु तद्वतीत्यत्रावच्छिन्नत्वमेव सप्तम्यर्थः । अन्वयश्चास्य

विशेष्यितासम्बन्धेन तठाकारत्वे । तथा च - विशेष्यितासम्बन्धेन तदवच्छिन्ना या

तत्रकारिता तच्छाल्यनुभवत्वं तत्प्रमात्वमिति फलितम् । इदमत्रैतप्रकारकमिति

प्रतीत्या विशेष्यस्यापि विशेष्यितासम्बन्धेन तठप्रकारितायामवच्छेकत्वात् लक्षण-

समन्वयः । रङ्गरजतयोः इमौ रजतरङ्गौ इति विपरीतभ्रमे च रजतावच्छिन्नं न

रजतत्वप्रकारकत्वमपि तु रङ्गावच्छिन्नमिति न तत्रातिव्याप्तिः (मू० म० प्रामा०

सिद्धान्ते पृ० ४०३) (न्यायकोश: पृ० ३०८) ।
 

 
प्रमायुकम्- , प्रमायुक
मरणशीलम् । यथा - लौकिकं प्रियमपि अप्रियमेवेति निश्चित्य

उपास्ते चिन्तयति नह्यस्यैवं विदः प्रियं प्रमायुकं प्रमरणशीलं भवति (बृ० आ० उप०

१/४/८ शा० भा०) । प्रमायुकम् = मरणशीलम् । ताच्छील्यार्थे उकञप्रत्ययः ।
 

 
प्रमितत्वम् - , प्रमितत्व
प्रमाविषयत्वम् । यथा घटे स घटः अस्तीति ज्ञानविषयत्वम् । यथा

वा स्थावरजङ्गमात्मकस्य सर्वस्य जगतः प्रमितत्वम् । क्वचित् स्वविशेष्यप्रमाप्रकारत्वम्

(ग० वा०) । २. परिमितत्वम् । यथा - प्रमितास्तण्डुला इत्यादौ (न्यायकोशः) ।
 
-
 
-
 

 
प्रमेयः - , प्रमेय
१. अद्वैतनये सर्वमेव मिथ्या । एकमेव पारमार्थिकं सत्यं नित्यं ब्रह्म ।

तदेव अनधिगताबाधितविषयज्ञानरूपायाः प्रमायाः विषयः प्रमेयः । अत एकमेव

प्रमेयं बह्म । अन्यत्सर्वमप्रमेयं मिथ्याभूतं केवलं व्यावहारिकप्रातिभासिकसत्तारूपम् ।

इदमेव एकमेवाद्वितीयं ब्रह्म इत्यादिश्रुतेः स्वारस्यम् । यथा - विषयो जीवब्रह्मैक्यं शुद्ध-

चैतन्यं प्रमेयम् (वे० सा० ९) । २. न्यायवैशेषिकमते द्वादशविधं प्रमेयम् । यथा -

आत्मशरीरेन्द्रियार्थबुद्धिमन प्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गास्तु प्रमेयमिति द्वादशविधं

प्रमेयम् (त० सं० दी० श० ख०) । साङ्ख्ययोगे चतुर्विशतिस्तत्त्वानाम् । बौद्धनये सर्वं

शून्यमेकं विज्ञानं वा । आर्हते जीवाजीवावित्यादि । ३. (क) योऽर्थः तत्वतः

प्रमीयते तत्प्रमेयम् (वात्स्या० १/१/१ प्रस्तावना) । यथा- घटपटादिसर्वं जगत्

प्रमेयम् । अत्र प्रमेयत्वं च ईश्वरीयप्रमाविषयत्वम् (त० दी० २) । तच्च केवलान्वयि ।

सर्वस्यापि जगतः ईश्वरज्ञानरूपप्रमाविषयत्वात् (न्या० म०) । सामान्यतः प्रमाविषयत्वं

वा प्रमेयत्वम् । मायावादिमते विशुद्धचैतन्यमेव प्रमेयम् । (ख) संसारहेतुमिथ्याज्ञान-

विषयः मोक्षहेतुधीविषयो वा । यथा - आत्मशरीरादि प्रमेयम् । न्यायनये द्वादशविधं
 
-