This page has not been fully proofread.

शाङ्कुरवेदान्तकोशः
 
भूयोऽवयवेन्द्रियसन्निकर्षः । रूपादिप्रत्यक्षे आत्मप्रत्यक्षे च तदभावात् । सत्यपि तस्मिन्
पीतः शङ्ख इति प्रत्ययस्य भ्रमत्वाच्च । अत एव न सल्लिङ्गपरामर्शादिकमप्यनु-
मित्यादिप्रमायां गुणः । असल्लिङ्गपरामर्शादिस्थलेऽपि विषयाबाधेन अनुमित्यादेः
प्रमात्वात् । न चैवम् अप्रमापि प्रमा स्याद् ज्ञानसामान्यसामग्र्या अविशेषादिति वाच्यम् ।
दोषाभावस्यापि हेतुत्वाङ्गीकारात् । न चैवं परतस्त्वमिति वाच्यम् । आगन्तुक
भावकारणापेक्षायामेव परतस्त्वात् । ज्ञायते प्रामाण्यं स्वतः । स्वतो ग्राह्यत्वं च दोषाभावे
सति यावत्स्वाश्रयग्राहकसामग्रीग्राह्यत्वम् । स्वाश्रयो वृत्तिज्ञानं तद्ग्राहकं साक्षिज्ञानं
तेनापि वृत्तिज्ञाने गृह्यमाणे तद्गतं प्रामाण्यं गृह्यते । त चैवं प्रामाण्यसंशयानुपपत्तिः ।
तत्र संशयानुरोधेन दोषस्यापि सत्त्वेन दोषाभावघटितस्वाश्रयग्राहकाभावेन तत्र
प्रामाण्यस्यैवाभावात्। यद्वा यावत्स्वाश्रयग्राह्यत्वयोग्यत्वं स्वतस्त्वम् । संशयस्थले
प्रामाण्यस्योक्तयोग्यतासत्त्वेऽपि दोषवशेनाग्रहात् न संशयानुपपत्तिः । अप्रामाण्यं तु न
ज्ञानसामान्यसामग्रीप्रयोज्यम् । प्रमायामप्यप्रामाण्यापत्तेः । किन्तु दोषप्रयोज्यम् ।
नाप्यप्रामाण्यं यावत्स्वाश्रयग्राहकग्राह्यम् । अप्रामाण्यघटकतदभाववत्त्वादेर्वृत्तिज्ञानानु
पनीतत्वेन साक्षिणा ग्रहीतुमशक्यत्वात् । किन्तु विसंवादिप्रवृत्त्यादिलिङ्गकानुमित्यादि-
विषय इति परत एवाप्रामाण्यमुत्पद्यते ज्ञायते चेति (वे० प० ६ प०) । इत्यद्वैत-
वेदान्तिनः । २. तत्र प्रामाण्यं स्वतो ग्राह्यमिति वदतां मीमांसकानामयमाशयः । यथा
दूराप्रत्यक्षेणेन्द्रियेण जलादिज्ञाने जाते तत्र स्वत एव यथार्थत्वरूपप्रामाण्यमवधार्य
जलार्थी प्रवर्तते । ज्ञानग्रहे तद्गतप्रामाण्यस्यापि ग्रहात् प्रमात्वस्य स्वतस्त्वमुपपद्यते
त० कौ० प्रामा० पृ० १८ इति । अन्यत्र चेत्थमुक्तम्, मीमांसकमते प्रामाण्यस्य स्वतस्त्वं
द्विविधम् – उत्पत्तौ ज्ञप्तौ चेति । तत्र उत्पत्तौ स्वतस्त्वं नाम ज्ञानकरणमात्रजन्यत्वम् ।
येन ज्ञानं जायते तेनैव तद्गतं प्रामाण्यमपि जायत इति । ज्ञप्तौ स्वतस्त्वं नाम
ज्ञानग्राहकमात्रग्राह्यत्वम् । येन ज्ञानं गृह्यते तेनैव तद्गतप्रामाण्यमपि गृह्यत इति ।
नैयायिकमते परतस्त्वमपि द्विविधम् - उत्पत्तौ ज्ञप्तौ चेति । तत्र उत्पत्तौ परतस्त्वं नाम
ज्ञानकारणातिरिक्तकारणजन्यत्वम् । ज्ञप्तौ च परतस्त्वं नाम ज्ञानग्राहकातिरिक्तग्राह्यत्वमिति
वस्तुस्थितिः (प्र० च० परि० १ पृ० ४५) । मीमांसकाश्च त्रयो मिथो विप्रतिपन्नाः ।
प्रभाकरापरनामका गुरवस् तु तौताख्या भट्टाः मुरारिनामका मिश्राश्चेति । तत्र गुरूणां मतं
ज्ञानस्य स्वप्रकाशरूपत्वात् तज्ज्ञानप्रामाण्यं तेनैव गृह्यत इति । भट्टानां मतं च
ज्ञानमतीन्द्रियम् । ज्ञानजन्या ज्ञातता प्रत्यक्षा । तया च ज्ञानमनुमीयते । अत्रानुमानं तु
घटो घटत्ववद्द्विशेष्यकघटत्वप्रकारकज्ञानविषयो घटत्वप्रकारकज्ञाततावत्त्वात् यन्नैवं
 
-
 
२९२