This page has not been fully proofread.

शाङ्कुरवेदान्तकोशः
 
२९१
 
प्रमाणत्वम् । इन्द्रियादेः प्रमाणत्वव्यवहारस्तु प्रमाणजनकतया गौणो विज्ञेयः ।
न्यायरत्नावलीकाराणामपि एतदभिमतम्- चक्षुरादेः प्रमाणत्वव्यवहारस्तु वृत्तिजन-
तयौपचारिक इति स्थितिः । तथापि प्रत्यक्षपरिच्छेदे चैतन्यस्य प्रमात्वम्, अनुमानपरिच्छेदे
वृत्तेः प्रमात्वं दर्शितवान् ग्रन्थकारः । तत्र स्वाकारवृत्त्यमिव्यक्तचैतन्यस्य प्रमात्वे वृत्तेः
करणत्वम्, व्यापारस्तु वृत्तिविषययोः स च सर्वप्रमाणसाधारणः । वृत्तेः प्रमात्वे तु
करणानि इन्द्रियाणि व्याप्तिज्ञानादीनि च । व्यापारस्तु विषयेन्द्रियसम्बन्धरूपो
व्याप्तिसंस्कारादिरूपश्च (तत्रैव श्रीगजाननशास्त्रिकृतटिप्पणी) (ख) प्रमीयते यत् तत्
प्रमाणमिति भावव्युत्पत्त्या प्रमाणमेव प्रमा तथा प्रामाण्यमेव प्रमात्वम् । यथा - स्वतः
प्रामाण्यविचारो हि संशयातिरिक्तं ज्ञानसामान्यमुद्दिश्यैव न तु प्रमाणानि अधिकृत्य ।
तथा च न्यायरत्नमालायाम् - यदि प्रामाणान्येव विषयीकृत्य चिन्त्येरन् ततो यानि उभयोः
प्रमाणतया प्रसिद्धानि तेषामेव प्रामाण्यं स्वतः इत्येतावत् सिद्धयेत् । ततश्च वेदस्य
उभयवादिसिद्धप्रामाण्याभावेन विचाराविषयत्वात् नास्य स्वत आमाण्यं साधितं स्यात् ।
तत्र वेदप्रामाण्यानुपयोगिन्याश् चिन्तायाः काकदन्तपरीक्षावदकर्तव्यता स्यात् । ज्ञानमात्रं
त्वधिकृत्य स्वतःप्रामाण्ये परतश्च अप्रामाण्ये साध्यमाने वेदस्यापि स्वतस्तावद्
विषयतात्वरूपं प्रामाण्यमवगतं सत् कारणदोषज्ञानादेः अभावात् निरपवादं स्थितं
भवतीति प्रयोजनवती चिन्ता इति । तथा च संवादिप्रवृत्तिप्रयोजकत्वरूपं प्रामाण्यं कस्य
ज्ञानस्य कस्य च ज्ञानस्य विसंवादिप्रवृत्तिजनकत्वरूपमप्रामाण्यम् । एतच्च कथमुत्पद्यते
कथं च ज्ञायते । इत्येवात्र विचारणीयम् । अत्र प्रमाणशब्दः भावव्युत्पत्त्या प्रमार्थकः
स्वतःप्रमाणानां प्रामाण्यं प्रमात्वमित्यर्थः । तत्र केचित् प्रमात्वाऽप्रमात्वयोः
स्वतस्त्वमिच्छन्ति केचिन्नेच्छन्ति । तथा च तार्किकरक्षायाम् – प्रमाणत्वाप्रमाणत्वे
स्वतः सांख्याः समाश्रिन्ताः नैयायिकास्ते परतः सौगताश्च चरमं स्वतः । प्रथमं परतः
प्राहुः प्रामाण्यं वेदवादिनः । प्रमाणत्वं स्वतः प्राहुः परतश्चाप्रमाणतामिति । स्वत
एवोत्पद्यते ज्ञायते च । स्वस्य स्वहेतुकत्वानुपपत्तेः आत्मीयानिति स्वतःशब्दस्यार्थः ।
आत्मीयशब्देन दोषाभावसहकृतज्ञानसामान्यसामग्री दोषाभावसहकृतज्ञानग्राहकसामग्री
च ज्ञातव्या । जनकज्ञापकयोः आत्मीयत्वप्रसिद्धिः । उत्पत्तौ जनकत्वेन आत्मीयत्वम् ।
ज्ञप्तौ ज्ञापकत्वेन आत्मीयत्वम् (तत्रैव श्रीगजाननशास्त्रिकृतटिप्पणी) । यथा- एवमुक्तानां
प्रमाणानां प्रामाण्यं स्वत एवोत्पद्यते ज्ञायते च । तथा हि स्मृत्यनुभवसाधारणं संवादि-
प्रवृत्त्यनुकूलं तद्वति तत्प्रकारकज्ञानत्वं प्रामाण्यम् । तच्च ज्ञानसामान्यसामग्री-
प्रयोज्यं न त्वधिकं गुणमपेक्षते प्रमामात्रेऽनुगतगुणाभावात् । नापि प्रत्यक्षप्रमायां
 
-