2023-03-25 04:00:40 by Vidyadhar Bhat
This page has been fully proofread once and needs a second look.
-
-
चैतन्यम् । यथा - येन प्रमात्रा इदं सर्वं वस्तु विजानाति लोकः
(ब्र० सू० १ ।१ ।४ वे० क० त० ) । यथा च - अन्तःकरणवृत्तिप्रतिबिम्बनं तदवच्छिन्नं
वा चैतन्यमेव प्रमाता (वे० प० १ प०) । यथा च अधिकारी तु विधिवदधीतवेदाङ्गत्वे-
नापाततोऽधिगताखिलवेदार्थोऽस्मिन् जन्मनि जन्मान्तरे वा काम्यनिषिद्धवर्जनपुरस्सरं
नित्यनैमित्तिकप्रायश्चित्तोपासनानुष्ठानेन निर्गतनिखिलकल्मषतया नितान्तनिर्मलस्वान्तः
साधनचतुष्टयसम्पन्नः प्रमाता ( वे० सा० ) । यथा च - अविद्योपाधिकं साक्षित्वं
बुद्ध्यादिकं च प्रमातृत्वमतो द्वयमपि कल्पितमित्यर्थः (सं० शा० ३ । १३२ सु० टी०) ।
यथा च - नैल्यस्य यावत्पटमनुवृत्तेः स्वाभाविकता न तु सुषुप्तौ व्यभिचारिणः
साक्षित्वादेरित्यर्थः । ननु सुषुप्तावविद्यायाः सत्त्वात्कथं तदुपाधिकसाक्षित्वाभाव इति ।
तत्राह – यद्धेतुकमिति । न तदविद्यामात्रापेक्षमपि तु साक्ष्यमपेक्षत इत्यर्थः (सं० शा०
३।१३२ सु० टी०) । इत्यद्वैतवेदान्तिनः । बुद्धिप्रतिविम्बतं चेतनं प्रमाया आश्रयत्वेन
प्रमाता कथ्यते । (पा ० पो० सू० १ । ७) इति साङ्ख्ययोगविदः । अधिकं तु प्रमा-
शब्दे द्रष्टव्यम् । यस्येप्साजिहासाप्रयुक्तस्य प्रवृत्तिः सः (वात्स्या० १।१ ।१ प्रस्तावना) ।
सच प्रमाता आत्मा (प्रशस्त० पृ० २६) । यथा चैत्रो घटं प्रमिनोतीत्यादौ चैत्रःप्रमाता ।
.अत्र प्रमातृत्वं च प्रमासमवायित्वम् । एतच्चाकारणत्वेऽपि प्रमाया ईश्वरस्य सिद्धम् ( कु०
टी० ४।५) । अत्रेदं बोध्यम् । प्रमाता स्वतन्त्रः । स्वातन्त्र्यं च कारकफलोपभोक्तृत्वम्
(न्या० वा० १ पृ० ९) इति । ( न्यायकोशः पृ० ३०७) इति ।
२९०
प्रमातृ
अन्तःकरणावच्छिन्नचैतन्यं प्रमातृ । यथा - यद्यपि विषयप्रकाशकं
विषयाधिष्ठानभूतं प्रमेयचैतन्यम्, अन्तःकरणावच्छिन्नचैतन्यं तु तस्य प्रमातृ,
अन्तःकरणवृत्त्यवच्छिन्नं चैतन्यं तु प्रमाणम् (अ० सि० ) । यथा च - तथाहि त्रिविधं
चैतन्यम् - विषयचैतन्यम्, अन्तःकरणवृत्त्यवच्छिन्नं चैतन्यं प्रमाणचैतन्यम्, अन्तःकरणा-
वच्छिन्नं चैतन्यं प्रमातृचैतन्यम् (वे० प० १ प०) ।
-
-
प्रमात्वम् -
प्रमात्वम्, प्रमात्व
१ यथार्थज्ञानत्वम् । यथा- तत्र प्रमाकरणं प्रमाणम् । तत्र
स्मृतिव्यावृतं प्रमात्वम्- अनधिगताबाधितविषयज्ञानत्वम् । स्मृतिसाधरणं तु अबाधित
विषयज्ञानत्वम् । (वे० प० १ प०) । यथा च - प्रमाणलक्षणस्य प्रमाघटितत्वात् प्रथमं
तावत् प्रमात्वं निरूप्यते । तत्र अभिव्यक्तचैतन्यस्यैव प्रमात्वं तस्यैव अज्ञान-
विरोधित्वात् । अतोऽज्ञानविरोधिचैतन्यस्यैव प्रमात्वमुच्यते । अन्तःकरणपरिणामरूपाया
वृत्तेस्तु जडत्वात् नाज्ञानविरोधित्वमिति न प्रमात्वम् । किन्तु प्रमाकरणत्वेन तस्याः