2023-03-25 03:59:31 by Vidyadhar Bhat
This page has been fully proofread once and needs a second look.
२८९
पृ० ८) । प्रत्यक्षमनुमानमेवेति बौद्धाः आर्हताश्च मन्यन्ते । लौकिकमार्षं च द्विविधं
प्रमाणमिति सांख्या मन्यन्ते । तत्र लौकिकं प्रत्यक्षानुमानाप्तवचनानि । आर्षं विज्ञानम् ।
प्रत्यक्षं शब्दश्चेति द्वे प्रमाणे इति श्रीमदानन्दतीर्थभगवत्पादाचार्या प्राहुः । एतन्मते
त्वनुमानं श्रुत्यनुसारित्वेन प्रमाणं न तु स्वातन्त्र्येणेति बोध्यम् । मानुषदैवभेदेन द्विविधं
प्रमाणम् (याज्ञ० २।१।१६) । इति व्यवहारशास्त्रज्ञा आहुः । प्रत्यक्षानुमानं शाब्दं
चेति मन्वादयः आहुः। अत्र अलौकिके विषये वेदो ब्रह्मसूत्रं भगवद्गीता श्रीमद्-
भागवतमितिप्रमाणचतुष्टयमिति वाल्लभा मन्यन्ते । प्रत्यक्षमनुमानमाप्तवचनमिति त्रीणि
प्रमाणानि इति सांख्याः योगिनश्च । तत्र सांख्यपातञ्जलमायावादिमते अन्तः-
करणवृत्तीनां पौरुषेयचित्तवृत्तिः प्रकाशरूपबोधे कारणम् । अन्तःकरणवृत्तिषु च
ज्ञानत्वारोपेण तत्करणत्वमिन्द्रियाणामिति विवेकः (सां० प्र० भा०) । (पात० सू० ) ।
प्रत्यक्षानुमानोपमानानि त्रीणि इति नैयायिकैकेदेशिनः आहुः । प्रत्यक्षानुमानोपमान-
शब्दाश्चत्वारि प्रमाणानि इति गौतमप्रधाना नैयायिका आहुः । शब्दात् प्रत्येमीति
विलक्षणप्रतीतेर्व्याप्तिनिरपेक्षादाकाङ्क्षादिज्ञानादुत्पत्तेस्तत्कारणतया शब्दस्यातिरिक्तं
प्रमाणं सिद्ध्यति नैयायिकसिद्धान्तः । तत्र शब्दस्य स्वतन्त्रप्रामाण्यमुक्तम् । आप्तोपदेश-
सामर्थ्याच्छब्दादर्थसम्प्रत्ययः (गौ०२/१/५०) । प्रत्यक्षानुमानोपमानशब्दार्थापत्तिश्चेति
पञ्च प्रमाणानि इति प्राभाकरा: आहुः । प्रत्यक्षानुमानोपमानशब्दार्थापत्तिरनुपलब्धिश्चेति
षट् प्रमाणानि इत्यपरे भाट्टा वेदान्तिनश्चाहुः । सम्भवैतिह्ये अप्यतिरिक्ते प्रमाणम् इति
पौराणिका आहुः । चेष्टाप्यतिरिक्तं प्रमाणमिति तान्त्रिका अमन्यन्त (ता० २० श्लो०
८-११) (सि० च० १ पृ० २०) । अनुभूतिरपि प्रमाणम् इति प्राभाकरा आहुः । केचित्तु
शकुनलिप्यादिकमपि प्रमाणान्तरमिच्छन्ति । उपक्रमोऽनुमानमेव नातिरिक्तं प्रमाणमिति
(प्र० प० पृ० ५) (प्र० च० पृ० ४४) २. प्रमा (यथार्थज्ञानम्) । यथा स्वतः प्रामाण्यं
परतः प्रामाण्यमित्यादौ प्रमाणपदार्थः । ३. सत्यवादी । ४. इयत्ता । ५. परिच्छेदः । ६.
हेतुः । ७. प्रमाता (मेदिनी) । ८. विष्णुः (विष्णु स०) (न्यायकोशः पृ०३०१-३०५) ।
-
प्रमाणान्तरम्
स्वतन्त्रप्रमाणम् । यदसाधारणं सहकारि समासाद्य मनो-
बहिर्गोचरां प्रमां जनयति तत् । यथा प्रत्यक्षमिन्द्रियं प्रमाणान्तरम् । संशयस्वप्नौ तु न
प्रमे इति न निद्रादेः प्रमाणान्तरत्वम् (चि० २ पृ० ३५) (कु० टी० ४) । (न्यायकोशः
पृ० ३०६) ।