2023-03-25 03:58:44 by Vidyadhar Bhat
This page has been fully proofread once and needs a second look.
-
२८८
च प्रमाणानि षट् प्रत्यक्षानुमानोपमानागमार्थापत्त्यनुपलब्धिभेदात् (वे० प० १ प०) ।
इत्यद्वैतवेदान्तिनः । दृष्टमनुमानमाप्तवचनं च सर्वप्रमाणसिद्धत्वात् । त्रिविधं प्रमाणमिष्टं
प्रमेयसिद्धिः प्रमाणाद्धि (सां० का० ४) इति (सांख्यविदः) । प्रत्यक्षानुमानागामाः
प्रमाणानि (पा० यो० सू० ११७) (इति योगविदः) । तत्करणमपि चतुर्विधम्
प्रत्यक्षानुमानोपमानशाब्दभेदात् (त० सं० प्र० ख ) । अत्र न्यायबोधिन्याम् - प्रत्यक्षादि-
चतुर्विधप्रमाणानां प्रमाकरणत्वं सामान्यलक्षणम् । एकैकप्रमाणलक्षणं तु वक्ष्यते प्रत्यक्ष-
ज्ञानेत्यादिना । अत्र दीपिकायाम् - प्रमायाः करणं प्रमाणमिति प्रमाणसामान्यलक्षणम्
(इति न्यायवैशेषिकाः) ।
१. (क) प्रमाता येनार्थं प्रमिनोति तत् (वात्स्या० १।१।१ प्रस्तावना) ।
(ख) प्रमायाः करणम् (न्या० मु० पृ० १) (त० सं०) (त० भा० पृ० ४) (त० कौ०
पृ० ८) । यथा चक्षुरादिप्रत्यक्षात्मकप्रमायाः प्रमाणम् । अनुमितौ च लिङ्गदर्शनं
प्रमाणम् । उपमितौ च सादृश्यज्ञानं प्रमाणम् । शाब्दे च वेदाः प्रमाणमित्यादौ शब्दः
प्रमाणम् । अत्रेदं बोध्यम् । इन्द्रियसंयोगादिरेव प्रमाकरणम् । न तु प्रमातृप्रमेयादीनि ।
सत्यपि प्रमातरि प्रमेये च प्रमानुत्पत्तेः इन्द्रियसंयोगादौ तु सत्यबिलम्बेन प्रमोत्पत्तिः अतः
इन्द्रियसंयोगादिरेव करणम् । न प्रमात्रादि (त० भा० पृ० ५) (ग) - साधनाश्रयाव्यति-
रिक्तत्वे सति प्रमाव्याप्तम् । अनेन च प्रतितन्त्रसिद्धान्तसिद्धम् परमेश्वरप्रामाण्यम्
सगृहीतम् (सर्व० द० सं० अक्ष० ) ( कु० टी० ४/५) । अत्र सूत्रम् - मन्त्रायुर्वेदप्रामाण्यवच्च
तत्प्रामाण्यमाप्तप्रामाण्यात्(गौ०२।१।६८) ।(घ) प्रमायोगव्यवच्छिन्नम् - प्रमया सह
योगव्यवच्छदेन सम्बन्धि । (ङ) अवधिगतार्थं गन्तृप्रमाणमिति भाट्टमीमांसका आहुः
(सि० च० १ पृ० २०). (कु० टी० ४/५) (तत्त्वसंख्या) । तदसत् । न्यायनये
प्रमाणानि चत्वारि प्रत्यक्षम्, अनुमानम्, उपमानम् शब्दश्च (गौ० १ । १ ।३) । यप्रमाणं
तत्प्रत्यक्षादिचतुष्टयान्यतममिति वाक्यार्थः । तेन न्यूनाधिकसंख्याव्यवच्छेदलाभः
(म० प्र० १ पृ० ६) । अत्रेदं बोध्यम् - नित्यप्रमायाः आश्रयः समवायिप्रमाणमीश्वरः ।
अनित्यप्रमायास्तु कारणं प्रत्यक्षादिचतुष्टयम् (ता० र० श्लो० ४) । इति । प्रमीयते
परिच्छिद्यते अनेनेति प्रमाणम् । तच्च द्विविधं मानसं दैविकञ्च (मिताक्षरा २ । २२ ) ।
प्रकारान्तरेण प्रमाणं द्विविधम् - शब्दोपजीवि शब्दानुपजीवि च (कु० टी०) । इदानीं
मतभेदेन प्रमाणसंख्या कथ्यते । प्रत्यक्षमेकमेव प्रमाणमिति चार्वाकाः आहुः
प्रत्यक्षमनुमानं चेति द्वे प्रमाणे इति कणादप्रधाना वैशेषिकाः मन्यन्ते । एतन्मते
-
...
-