2023-03-12 05:01:21 by ambuda-bot
This page has not been fully proofread.
शावेदान्तकोशः
दोषजन्यत्वापातात् इति चेत्, न (अ० सि०) । यथा च - प्रमा त्रिकालाबाध्यविषयकत्व-
घटितप्रमात्वाश्रयः । दोषेति । सिद्धान्ते प्रमात्वस्य स्वतस्त्वस्वीकारेण गुणजन्यतावच्छेद-
कत्वेन प्रमाया गुणजन्यत्वं नापादितम्, भ्रमस्य तु दोषजन्यत्वं सिद्धान्ते स्वीक्रियते (तत्रैव
गौ० ब्र०) । यथा च - त्रिकालाबाध्यविषयकत्वघटितप्रमात्वाश्रयः (तत्रैव ल० च०) ।
इत्यद्वैतवेदान्तिनः । २. अनधिगतार्थस्य वस्तुनोऽवधारणमिति । ३. पुरुषनिष्ठबोधः
प्रमा इति च सांख्ययोगविदः । ४. अनुभव:- (क) यदर्थविज्ञानम्, सा प्रमा (वात्स्या०
१।१।१) । प्रस्तावना सा च द्रष्टव्यादिविषयं ज्ञानम् (यथार्थम्) (प्रशस्त पृ० २६) ।
लक्षणञ्च वक्ष्यमाणं प्रमात्वमेव इति विज्ञेयम्....। (ख) तत्त्वानुभवः । (ग) यत्र
यदस्ति तत्र तस्यानुभवः तद्वति तप्रकारानुभवो वा (चि० १ पृ० ४००) (त० सं०)
फलितार्थस्तु तद्वति तद्विशेष्यकत्वावच्छिन्नतत्प्रकारताशाल्यनुभवः इति । विशेष्यता-
सम्बन्धेन तदवच्छिन्ना या तत्प्रकारिता तच्छाल्यनुभवः इति वा । तेन रजतरङ्गयोः इमे
रङ्गरजते इत्यादिविपरीतसमूहालम्बनभ्रमे नातिव्याप्तिः (मू० म० १ प्रमा पृ० ४०३ ) ।
निर्विकल्पकज्ञानं तु प्रमा अप्रमा एतद्बहिर्भूतमेव । व्यवहारानङ्गत्वात् (चि० १ प्रमा
पृ० ४०२) । एवञ्च निर्विकल्पकं प्रमालक्षणलक्ष्यमेवेति । तस्य प्रकारिताविशेष्यितादि-
शून्यत्वेऽपि न तत्रातिव्याप्तिशंका इति भावः । (घ) यथार्थानुभवः (ता० २०) (त०
भा०) (न्या० म० १ पृ० १) (त० सं०) (त० कौ० पृ० ७) यथा रजते इदं रजतमिति
प्रत्यक्षं प्रमा ( त० सं० ) । अत्र यथार्थ्यं च तदवति तदवगाहित्वम् (त० सं० ) ।
(ङ) विषयताश्रयावृत्त्यप्रकारकानुभवः । (च) विशेष्यनिष्ठात्यन्ताभावाप्रतियोगि-
प्रकारकविषयताप्रतियोगी । (छ) विशेष्यनिष्ठात्यन्ताभावप्रतियोगिप्रकारानवच्छिन्न
विषयताप्रतियोगी वा । (ज) विषयतासमानाधिकरणात्यन्ताभावप्रतियोगिप्रकारक-
विषयत्वाप्रतियोगी वा । (झ) विषयतासमानाधिकरणात्यन्ताभावप्रतियोगिप्रकारान-
वच्छिन्नविषयताप्रतियोगी वा अनुभवः (चि० १ प्रामा० पृ० ४००-४२०) । एकधर्मा-
वच्छिन्नतत्तदभावोभयवन्निष्ठविशेष्यताकं द्रव्यं रजतमित्यादि ज्ञानं न लक्ष्यमिति मते छ,
ज इत्यादीनि लक्षणानि (मू० न० १ प्रामा पृ० ४५०) (न्यायकोशः) ।
२८७
-
-
-
प्रमाणम् – अनधिगतस्याबाधितस्यार्थस्य बोधनम्, यथा- अनधिगतावबोधनं हि
प्रमाणम् (ब्र० सू० ४।४।१ भाम०) । यथा च तत्र प्रमाकरणं प्रमाणम्, तत्र स्मृति-
व्यावृतं प्रमात्वमनधिगताबाधितविषयज्ञानत्वम् । स्मृतिसाधारणं त्वबाधितविषय-
ज्ञानत्वम् । नीरूपस्यापि कालस्येन्द्रियवेद्यत्त्वाभ्युपगमेन धारावाहिकबुद्धेरपि पूर्वपूर्व-
ज्ञानाविषयतत्तत्क्षणविशेषविषयकत्वेन न तत्राव्याप्तिः (वे० प० १ प०) । यथा
।