2023-03-12 05:01:21 by ambuda-bot
This page has not been fully proofread.
शाङ्करवेदान्तकोशः
प्रद्राणकः- कुगतिः, मृत्युः । यथा - द्रा कुत्सायां गतौ । कुत्सितां गतिं
गतोऽन्त्यावस्थां प्राप्त इत्यर्थः (छा० उ० १।१०।२ शा० भा० ) ।
२८६
-
प्रध्वंसाभावः – चतुर्विधेष्वभावेष्वन्यतमः । यथा-तत्रैव घटस्य मुद्गरपातानन्तरं
योऽभावः स प्रध्वंसाभावः । ध्वंसस्यापि स्वाधिकरणकपालनाशे नाश एव । न चैवं
घटोन्मज्जनापत्तिः । घटध्वंसस्यापि घटप्रतियोगिकध्वंसत्वात् । अन्यथा प्रागभाव-
ध्वंसात्मकघटस्य विनाशे प्रागभावोन्मज्जनापत्तिः (वे० प० ६ प०) ।
प्रपञ्चधर्माः- प्रपञ्चः भूतभौतिकविस्तारस्तस्य धर्मः जडत्वादि । यथा -
अत्रानृतत्वं बाध्यत्वं जडत्वमचेतनत्वमन्तवत्त्रयं देशकालस्वरूपपरिच्छेद इति
प्रपञ्चधर्मा: (सं० शा० १ सु० टी० ) ।
-
♥
-
प्रभवः - १ (क) प्रभुशक्तिः । उत्पत्तिश्च । यथा- मम प्रभवं प्रभावं
प्रभुशक्त्यतिशयम्, अथवा प्रभवं प्रभवनमुत्पत्तिः (गी० १०/२ शा० भा० ) । प्रभवं
प्रभुशक्त्यतिशयं प्रभवनमुत्पत्तिमनेकविभूतिभिराविर्भावं वा (तत्रैव म० सू०) । यथा
च- अहं परं ब्रह्म वासुदेवाख्यं सर्वस्य जगतः प्रभव उत्पत्तिःभत्त एव स्थिति-
नाशक्रियाफोपभोगलक्षणं विक्रियारूपं सर्वं जगत् प्रवर्त्तते (गी० १०/८ शा० भा० ) ।
यथा च - अहमेव सर्वस्य जगतः प्रभव उत्पत्तिः (तत्रैव नी० क०) । यथा च - प्रभव
उत्पत्तिकारणमुपादानं निमित्तं च (तत्रैव म० सू०) । यथा च - प्रभवनमिति प्रभव
उत्पत्तिः । यद्वा प्रकर्षेण भवत्यनेनेति प्रभवः (तत्रैव ९।१९ भाष्यो०) (ख) जगतः प्रभव
उत्पत्तिः प्रलयो विनाशस्तथा प्रकृतिद्वारेणाहं सर्वज्ञ ईश्वरो जगतः कारणमित्यर्थः
(तत्रैव ६।६ शा० भा०) । एवमेव तत्रैव नी० क० तथा श्रीधरी ।
-
-
प्रभातम् - स्वयंप्रकाशः । यथा - स्वयमेव प्रभातं भवति नादित्याद्यपेक्षम्.....
सकृद् विभावतः सदैव विभात इत्येतत् (मा उ० मा० का० ४।९१ शा० भा० ) ।
प्रमा- १. अबाधितानधिगतज्ञानविषयकं ज्ञानम् । यथा - तत्र प्रमाकरणं
प्रमाणम् । तत्र स्मृतिव्यावृत्तं प्रमात्वम्, अनधिगताबाधितविषयज्ञानत्वम् । स्मृति-
साधारणं तु अबाधितविषयज्ञानत्वम् (वे० प० १ १०) । इति अद्वैतवेदान्तिनः ।
२. तद्वति तप्रकारकोऽनुभवो यथार्थः । सैव प्रमेत्युच्यते (त०सं०प्र०ख०) इति न्याय-
वैशेषिकाः । अत्र एतप्रमात्वं द्विविधं मन्यते - आंशिकप्रमात्वम्, सर्वांशे प्रमात्वमथवा
प्रमात्वं नाम भ्रमसामान्यभिन्नत्वमिति । यथा च प्रमाभ्रमभिन्नं न ज्ञानम्, न
चात्मस्वरूपं ज्ञानं प्रमा तद्विषयस्याविद्यादेस्तात्विकत्वापातात्, न च अप्रमा