This page has not been fully proofread.

शाङ्करवेदान्तकोशः
 
२८५
 
प्रत्यक्षम् (सा० का० ४) । इति सांख्याः । ३. साक्षात् धीः इति प्राभाकराः । ४. अक्षमक्षं
प्रतीत्योत्पद्यत इति प्रत्यक्षम् । अक्षाणि - इन्द्रियाणि । अतः इन्द्रियार्थसन्निकर्षोत्पन्नं
ज्ञानमव्यपदेश्यमव्यभिचारि व्यवसायात्मकं प्रत्यक्षम् (गौ० सू० १/१।४)।
तदुत्पत्तिप्रकारस्तु आत्मा मनसा युज्यते, मनः इन्द्रियेण इन्द्रियमर्थेन ततः प्रत्यक्षं
ज्ञानमुत्पद्यते । अत प्रत्यक्षत्वञ्च ज्ञानत्वव्याप्यजातिविशेषः । अपरञ्च ज्ञानाकरणकं
ज्ञानं प्रत्यक्षमिति न्यायवैशेषिकाः । प्राभाकरमते साक्षात्वं न जातिः, न्यायवैशेषिकमते
तु साक्षात्वं जातिविशेषः ।
 
प्रत्यक्षभेदः - १. प्रथमं प्रत्यक्षं निर्विकल्पकसविकल्पकभेदेन द्विविधं ततः पुनः
जीवसाक्षि तथा ईश्वरसाक्षि इति भेदेन द्विविधम् । यथा- तच्च प्रत्यक्षं द्विविधं
सविकल्पकनिर्विकल्पकभेदात् । तत्र सविकल्पकं वैशिष्ट्यावगाहिज्ञानम् । यथा घट-
महं जानामीत्यादिज्ञानम् । निर्विकल्पकं तु संसर्गानवगाहि ज्ञानम् । यथा सोऽयं देवदत्तः
तत्त्वमसीत्यादि वाक्यजन्यज्ञानम् । ननु शाब्दमिदं ज्ञानं न प्रत्यक्षमिन्द्रियाजन्यत्वात् इति
चेत् । न । न हि इन्द्रियजन्यत्वं प्रत्यक्षत्वे तन्त्रं दूषितत्वात् । ....तच्च प्रत्यक्षं
पुनर्द्विविधम् - जीवसाक्षि ईश्वरसाक्षि चेति । तत्र जीवो नामान्तःकरणावच्छिन्नं
चैतन्यम् । तत्साक्षि तु अन्तःकरणोपहितं चैतन्यम् । अयं च जीवसाक्षी प्रत्यात्मं
नाना । ....ईश्वरसाक्षि तु मायोपहितं चैतन्यम् ।..... तच्चैकम् । तदुपाधिभूतमायाया
एकत्वात् । मायावच्छिन्नं चैतन्यं परमेश्वरः । मायाया विशेषणत्वे ईश्वरत्वम्
उपाधित्वे साक्षित्वमिति । ईश्वरत्वसाक्षित्वयोर्भेदः, न तु धर्मिणोरीश्वरतत्साक्षिणोः ।....
उक्तं प्रत्यक्षं प्रकारान्तरेण द्विविधम् - इन्द्रियजन्यं तदजन्यं चेति । तत्रेन्द्रियाजन्यं
सुखादिप्रत्यक्षम् । मनस इन्द्रियत्वनिराकरणात् (वे० प० १५०) । २. ज्ञानाकरणकं ज्ञानं
प्रत्यक्षम् । इन्द्रियार्थसन्निकर्षजन्यं ज्ञानं प्रत्यक्षम् । तद्विविधं सविकल्पकं निर्विकल्पकं
चेति (त० सं० प्र० ख०) ।
 
...
 
-
 
प्रत्यग्गुणा - प्रत्यगात्मरूपा । यथा - अन्तर्गुणेत्यस्य व्याख्या प्रत्यग्गुणेति
प्रत्यगात्मरूपेत्यर्थः (सं० शा० ३।२२१ अ० टी० ) ।
 
प्रत्यनुमानम् – प्रतिपक्षानुमानम् । यथा पर्वतो बह्निमान् धूमादिति वादिनोक्ते
पर्वतो बह्न्यभाववान् पाषाणमयत्वादिति प्रतिवादिनः प्रतीपानुमानम् ।
 
प्रथमजम् - महत् तत्त्वम्, बुद्धिः । यथा - महत्तत्वाख्यम् (तै०३० २।४ शा०भा०) ।
 
-