2023-03-12 05:01:20 by ambuda-bot
This page has not been fully proofread.
२८४
शाङ्कुरवेदान्तकोशः
विना साक्षिविषयत्वं किन्त्विन्द्रियानुमानादिप्रमाणव्यापारमन्तरेण साक्षिविषयत्वम् ।
अत एवाहङ्कारटीकायामाचार्यैरहमाकारान्तःकरणवृत्तिरङ्गीकृता । अत एव च
प्रातिभासिकरजतस्थले रजताकाराविद्यावृत्तिः साम्प्रदायिकैरङ्गीकृता । तथा चान्तःकरण-
तधर्मादिषु केवलसाक्षिवेधेषु वृत्त्युपहितत्वधटितत्वलक्षणस्य सत्त्वान्नाव्याप्तिः । तदयं
निर्गलितोऽर्थःस्वाकारवृत्त्युपहितप्रमातृचैतन्यसत्तातिरिक्तसत्ताकशून्यत्वे सति योग्यत्वं
विषयस्य प्रत्यक्षत्वम् (वे० प० १ प०) ।
-
प्रत्यक्षप्रमाणम् – १ . यथा - तत्र प्रत्यक्षप्रमायाः करणं प्रत्यक्षप्रमाणम् । प्रत्यक्षप्रमा
चात्र चैतन्यमेव यत्साक्षादपरोक्षाद् ब्रह्म ( बृ० ३।४।१ ) । इति श्रुतेः ।
अपरोक्षादित्यस्यापरोक्षमित्यर्थः । यथा च तदयं निर्गलितोऽर्थः, स्वाकारवृत्त्युपहित-
प्रमातृचैतन्यसत्ताऽतिरिक्तसत्ताकत्वशून्यत्ये सति योग्यत्वं विषयस्य प्रत्यक्षत्वम् । तत्र
संयोगसंयुक्ततादात्यादीनां सन्निकर्षाणां चैतन्याभिव्यञ्जकवृत्तिजनने विनियोगः (वे०
प० १ प०) । यथा च - घटादेः स्वावच्छिन्नचैतन्येऽध्यस्ततया विषयचैतन्यसत्तैव
घटादिसत्ता, अधिष्ठानसत्ताऽतिरिक्ताया आरोपितसत्ताया अनङ्गीकारात् । विषय-
चैतन्यश्च पूर्वोक्तप्रकारेण प्रमातृचैतन्यमेवेति प्रभातृचैतन्यस्यैव घटाद्यधिष्ठानतया
प्रमातृसत्तैव घटादिसत्ता नान्येति सिद्धं घटादेरपरोक्षत्वम् (वे० प० १ प्र०) । यथा
च - पर्वतो बह्निमानित्यादौ च पर्वतांशे वन्यंशे चान्तःकरणवृत्तिभेदाङ्गीकारेण
तत्तद्वृत्त्यवच्छेदकभेदेन परोक्षत्वापरोक्षत्वयोरेकत्र चैतन्ये वृत्तौ न विरोधः । तथा च
तत्तदिन्द्रिययोग्यवर्तमानविषयावच्छिन्नचैतन्याभिन्नत्वं तत्तदाकारवृत्त्यवच्छिन्नज्ञानस्य
तत्तदंशे प्रत्यक्षत्वम् (तत्रैव) । यथा च - प्रत्यक्षं द्विविधम् - एवं साक्षाद्वैविध्येन
प्रत्यक्षज्ञानद्वैविध्यम् । प्रत्यक्षत्वं च ज्ञेयगतं ज्ञाप्तिगतं चेति निरूपितम् (तत्रैव ) ।
यथा च - प्रत्यक्षं द्विविधम् - सविकल्पकनिर्विकल्पकभेदात् । तत्र सविकल्पकं
वैशिष्ट्यावगाहिज्ञानं यथा घटमहं जानामीत्यादि ज्ञानम् । निर्विकल्पकं तु
संसर्गानवगाहिज्ञानम् (तत्रैव ) । यथा च - तच्च प्रत्यक्षं पुनर्द्विविधं जीवसाक्षि
ईश्वरसाक्षि चेति । तत्र जीवो नामान्तःकरणावच्छिन्नं चैतन्यम् । तत्साक्षि तु
अन्तःकरणोपहितं चैतन्यमन्तःकरणस्य विशेषणत्वोपाधित्वाभ्यामनयोर्भेदः (तत्रैव ) ।
यथा च - नित्यापरोक्ष इत्यर्थः । चित्स्वरूपस्यात्मनः परोक्षे हेत्वभावात् सर्वावस्थानानु-
संधानप्रसंगाच्चेति भावः (सं० शा० १ ।२३९ अ० टी०) । २. प्रतिविषयाध्यवसायः