This page has not been fully proofread.

शाङ्कुरवेदान्तकोशः
 
कुल्यात्मना केदारान् प्रविश्य तद्वदेव चतुष्कोणाद्याकारं भवति । तथा तैजसमन्तः-
करणमपि चक्षुरादिद्वारा निर्गत्य घटादिदेशं गत्वा घटादिविषयाकारेण परिणमते । स एव
परिणामो वृत्तिरित्युच्यते । अनुमित्यादिस्थले तु नान्तःकरणस्य वह्न्यादिदेशगमनं
बह्न्यादेश्चक्षुराद्यसन्निकर्षात् । तथा चायं घट इत्यादिप्रत्यक्षस्थले घटादेस्तदाकारवृत्तेश्च
बहिरेकत्र देशे समवधानात् तदुभयावच्छिन्नं चैतन्यमेकमेव विभाजकयोरप्यन्तः-
करणवृत्तिघटादिविषययोरेकदेशस्थत्वेन भेदाजनकत्वात् । अत एव मठान्तर्वर्तिघटा-
वच्छिन्नाकाशो न मठावच्छिन्नाकाशाद् भिद्यते । तथा चायं घट इति घटप्रत्यक्षस्थले
घटाकारवृत्तेर्घटसंयोगितया घटावच्छिन्नचैतन्यस्य तद्वृत्त्यवच्छिन्नचैतन्यस्य चाभिन्नतया
तत्र घटज्ञानस्य घटांशे प्रत्यक्षम् । सुखाद्यवच्छिन्नचैतन्यस्य तद्वृत्त्यवच्छिन्नचैतन्यस्य
नियतेनैकदेशस्थितोपाधिद्वयावच्छिन्नत्वात् नियमेनाहं सुखीत्यादिज्ञानस्य प्रत्यक्षत्वम् ।
अहं पूर्वं सुखीत्यादिस्मृतावतिव्याप्तिवारणाय वर्तमानत्वं विषयविशेषणं देयम् ।
..... नन्वेवमपि स्वकीयधर्माधर्मौ वर्तमानौ यदा शब्दादिना ज्ञायेते तदा
तादृशशाब्दज्ञानादावतिव्याप्तिः । तत्र धर्माद्यवच्छिन्नतद्वृत्त्यवच्छिन्नचैतन्ययोरेकत्वात्
इति चेत, न । योग्यत्वस्यापि विषयविशेषणत्वात् । अन्तःकरणधर्मत्वाविशेषेऽपि
किञ्चिदयोग्यं किञ्चिद् योग्यमित्यत्र फलबलकल्प्यः स्वभाव एव शरणम् । अन्यथा
न्यायमतेऽप्यात्मधर्मत्वाविशेषात् सुखादिवद्धमदिरपि प्रत्यक्षत्वापत्तिर्दुर्वारा । पर्वतो
वह्निमानित्यादौ च पर्वतांशे वह्न्यंशे चान्तःकरणवृत्तिभेदाङ्गीकारेण तत्तद्वृत्त्यवच्छेदक-
भेदेन परोक्षत्वापरोक्षत्वयोरेकत्र चैतन्ये वृत्तौ न विरोधः । तथा च तत्तदिन्द्रिययोग्य-
वर्तमानविषयावच्छिन्नचैतन्याभिन्नत्वं तत्तदाकारवृत्त्यवच्छिन्नज्ञानस्य तत्तदंशे
प्रत्यक्षत्वम् । घटादेर्विषयस्य प्रत्यक्षत्वं तु प्रमात्रभिन्नत्वम् । ननु कथं घटादेरन्तःकरणा-
वच्छिन्नचैतन्याभेदः, अहमिमं पश्यामीति भेदानुभवविरोधादिति चेत् उच्यते
प्रमात्रभेदो नाम न तदैक्यम् । किन्तु प्रमातृसत्तातिरिक्तसत्ताकत्वाभावः । तथा च घटादेः
स्वावच्छिन्नचैतन्येऽध्यस्ततया विषयचैतन्यसत्तैव घटादिसत्ता । अधिष्ठानसत्ताति-
रिक्तसत्ताया अनङ्गीकारात् । विषयचैतन्यं च पूर्वोक्तप्रकारेण प्रमातृचैतन्यमेवेति
प्रमातृचैतन्यस्यैव घटाद्यधिष्ठानतया प्रमातृसत्तैव घटादिसता नान्येति सिद्धं :
घटादेरपरोक्षत्वम् । ..... नन्वेवमपि धर्माधर्मादिगोचरानुमित्यादिस्थले प्रत्यक्षत्वापत्तिः
धर्माधवच्छिन्नचैतन्यस्य प्रमातृचैतन्याभिन्नतया धर्मादिसत्तायाः प्रमातृसत्तानतिरेकादिति
चेत्, न । योग्यत्वस्यापि विषयविशेषणत्वात् । न चान्तःकरणतधर्मादीनां
वृत्तिविषयत्वाभ्युपगमे केवलसाक्षिविषयत्वाभ्युपगमविरोध इति वाच्यम् । न हि वृत्तिं
 
…....
 
२८३
 
....
 
-