This page has not been fully proofread.

२८२
 
शाङ्करवेदान्तकोशः
 
२. प्राणिनां संहारः । शरप्रतिहारः रोगिणां मृतानां च- प्रतिहरणात् (छा० उ०
२।६।१ शा० भा०) ।
 
प्रतीतिः
४. हर्षः (वाच०) ।
 
प्रत्यक् – जीवचैतन्यम् "प्रत्यक्चितिरहङ्कारोपलक्षितं जीवचैतन्यं त्वंपदलक्ष्यं सा
विजयते सर्वस्मादुपरि तत्पदलक्ष्येऽभेदेनैव वर्त्तत इत्यर्थः (सं० शा० २ सु० टी०) । यथा
च - प्रत्यगिति सर्वान्तरं चित्सदानन्दरूपमात्मतत्त्वमुच्यते" (सं० शा० ३ अ० का०
टी० ) । यथा च - "प्रतीपमञ्चतीति प्रत्यक्त्वं तत्पदलक्ष्यं जीवचैतन्यम् (सं० शा० ३
सु० टी०) । यथा च तथा प्रतीचोऽहंकारादिसाक्षिणः स्वस्मिन् स्वाज्ञानाध्यस्त-
कार्योपाधिप्रयुक्तमेव.... इत्यर्थ: (सं० शा० ३।१४८ अ० टी०) । यथा च - पराञ्चि
खानि व्यतृणत् स्वयंभूस्तस्मात् पराङ्पश्यति नान्तरात्मन् । कश्चिद्धीरः प्रत्यगा-
त्मानमैक्षदावृतचक्षुरमृतत्वमिच्छन् (क० ४।१ ) । इति । ज्ञानप्रसादेन विशुद्धसत्त्वस्ततस्तु
तं पश्यते निष्कलं ध्यायमानः (मु० ३।१।८) इति चैवमाद्या । स्मृतिरपि - यं
विनिद्राजितश्वासाः सन्तुष्ठाः संयतेन्द्रियाः । ज्योतिः पश्यन्ति युञ्जानास्तस्मै
योगात्मने नमः । योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनमिति चैवमाद्या
(ब्र० सू० ३।२।२४ शा० भा०) ।
 
-
 
१. बुद्धिवदस्यार्थोऽनुसन्धेयः । २. ख्यातिः । ३. आदरः ।
 
-
 
प्रत्यक्षम् - अद्वैतिनये मनसोऽनिन्द्रियतया इन्द्रियार्थसन्निकर्षजन्यं ज्ञानं
प्रत्यक्षमिति नाङ्गीक्रियते तथा मनस इन्द्रियत्वे अनुमित्यादेरपि मनोजन्यतया
प्रत्यक्षत्वापत्तेस्तथा ईश्वरज्ञानस्यानिन्द्रियजन्यस्य प्रत्यक्षत्वानापत्तेश्च । विषयप्रत्यक्षस्येदं
लक्षणं क्रियते - स्वाकारवृत्त्युपहितप्रमातृचैतन्यसत्तातिरिक्तसत्ताकत्वशून्यत्वे सति
योग्यत्वं विषयस्य प्रत्यक्षत्वम् । संयोगादीनां सम्बन्धानां चैतन्याभिव्यञ्जकवृत्तिजनने
उपयोगः । यथा- सिद्धान्ते प्रत्यक्षत्वप्रयोजकं किमिति चेत्, किं ज्ञानगतस्य प्रत्यक्षत्वस्य
प्रयोजकं पृच्छसि किं वा विषयगतस्य । आद्ये प्रमाणचैतन्यस्य विषयावाच्छिन्नचैतन्याभेद
इति ब्रूमः । तथा हि त्रिविधं चैतन्यं विषयचैतन्यं प्रमाणचैतन्यं प्रमातृचैतन्यं चेति । तत्र
घटाद्यवच्छिन्नं चैतन्यं विषयचैतन्यम्, अन्तःकरणवृत्त्यवच्छिन्नं चैतन्यं प्रमाणचैतन्यम्
अन्तःकरणावच्छिन्नं चैतन्यं प्रमातृचैतन्यम् । तत्र यथा तडागोदकं छिद्रान्निर्गत्य
 
-