This page has not been fully proofread.

शाङ्करवेदान्तकोशः
 
सत्यति ब्रह्मेत्यनुगमे, किन्तु नामादिविशेषं ब्रह्मरूपतया (तत्रैव भाम० ) । यथा
 
-
 
च - "न तस्य प्रतिमास्ति" (श्वेता० ४/१९) इति च ब्रह्मणोऽनुपमानत्वं
दर्शयति (ब्र० सू० २ । ३ ।७ शा० भा० ) । यथा च - प्रतिमीयते यया सा प्रतिमा
(गी० ११/४३ शा० भा० ) ।
 
२८१
 
-
 
प्रतिसंख्या – भावपदार्थविपरीता बुद्धिः । यथा - तदपि च त्रयं प्रतिसंख्याऽप्रति-
संख्यानिरोधावाकाशं चेत्याचक्षते । .....बुद्धिपूर्वकः किल विनाशो भावानां प्रतिसंख्या-
निरोधो नाम भाष्यते (ब्र० सू० २।२।२२ शा० भा०) । यथा च - भावप्रतीपा संख्या
बुद्धिः प्रतिसंख्या, तया निरोधः प्रतिसंख्यानिरोधः (तत्रैव भाम० ) ।
 
-
 
प्रति संचरः- प्राकृतप्रलयः सृष्टिविलयो वा । यथा - प्रतिसंचरः प्रलयः (ब्र०
सू० ३ । ३ । ३२ शा० भा०) । यथा च - ब्रह्मणा सह ते सर्वे प्राप्ते प्रतिसञ्चरे । परस्यान्ते
कृतात्मानः प्रविशन्ति परं पदमिति स्मरणात् (ब्र० सू० ३।३।३२ शा० भा० ) ।
विशेषस्तु प्रलयशब्दे द्रष्टव्यः ।
 
=
 
-
 
प्रतिष्ठा - १ . चरणम् । यथा - प्रतिष्ठे पादौ प्रतितिष्ठत्याभ्यामिति
( बृ० आ० उप० ५/५/३ शा० भा० ) । २. आश्रयः आधारो वा । यथा - ब्रह्म
पुच्छं प्रतिष्ठा । ३. ब्रह्मणः प्रतिष्ठा प्रत्यगात्मा (गी० १४/२६ शा० भा०) यथा
च - यद् ब्रह्म प्रत्यगात्मनि प्रतितिष्ठति (तत्रैव आ० गि०) । ४. वेदप्रतिष्ठा ब्रह्म
यथा- ब्रह्मणो वेदस्य प्रतिष्ठा तात्पर्येण पर्यवसानस्थानमहमेव (तत्रैव नी० क०) ।
५. शुद्धं ब्रह्म । यथा - ब्रह्मणस्तत्पदवाच्यस्य सोपाधिकस्य जगदुत्पत्तिस्थितिलयहेतोः
प्रतिष्ठा पारमार्थिकं निर्विकल्पकं सच्चिदानन्दात्मकं निरुपाधिकं तत्पदलक्ष्यमहं
निर्विकल्पको वासुदेवः प्रतितिष्ठत्यत्रेति प्रतिष्ठा । कल्पितरूपरहितमकल्पितं रूपमतो
यो मामानुपाधिकं ब्रह्म सेवते स ब्रह्मभूयाय कल्पत इत्युक्तमेव (तत्रैव म० सू०) ।
यथा च- अमृतादिस्वभावस्य परमात्मनः प्रत्यगात्मा प्रतिष्ठाः यस्मात्तस्मात्
सम्यग्ज्ञानेन स परमात्मेति निश्चीयते तदेतद् ब्रह्मभूयाय कल्पते (तत्रैव श्रीधरी) ।
६. प्रतिमा । यथा – हि यस्माद् ब्रह्मणोऽहं प्रतिष्ठा प्रतिमा घनीभूतं ब्रह्मैवाहम् ।
यथा - घनीभूतः प्रकाश एव सूर्यमण्डलं तवदेवेत्यर्थः (तत्रैव श्रीधरी) ।
 
-
 
प्रतिहारः - १. आदित्यः प्रतिप्राण्यभिमुखः । यथा - आदित्यः प्रतिहारः।
प्रतिप्राणि अभिमुखत्वान्मां प्रति - मां प्रतीति (छा० उ० २।२।१ शा० भा०) ।