This page has been fully proofread once and needs a second look.

शाङ्कुरवेदान्तकोशः
 
प्रतिबिम्बपक्षपातित्वात् । एतन्मते च गगनसूर्यस्य जलादौ भासमानसूर्यस्येव जीवपरयोर्भेदः

(वे० प० ७ प०) । इदं विवरणप्रस्थानानुसारम् । एतन्मते जीवेश्वरयोरभेदेऽपि

अविद्याकृतो भेदः । अत्र एकजीववादे अविद्योपाधिको जीवेशभेदः । प्रतिबिम्बस्य

जीवत्वात् बिम्बस्य ईशत्वात् । नानाजीववादे तु अन्तःकरणतत्संस्कारावच्छिन्ना-

ज्ञानोपाधिकस्य अन्तःकरणतत्संस्कारावच्छिन्नाज्ञानप्रतिबिम्बतचैतन्यस्य जीवत्वात्

बिम्बस्य च ईशत्वात् । एवं च संक्षेपशारीरककृतो मते चैतन्यत्रयम् - शुद्धं चैतन्यम्,

मायायां प्रतिबिम्बितं चैतन्यम् ईश्वरः, अन्तःकरणप्रतिबिम्बितं चैतन्यं जीवः । माया

जगत्कारणमतः कारणोपाधिः, अविद्याकार्यम् अन्तःकरणमतः कार्योपाधिः । एवं

चायमनेकजीववादः । एतन्मते अविद्याकृता दोषा जीव इव ईश्वरेऽपि प्रसज्येरन् ।

विवरणकारमते च बिम्बात्मकमेव ईश्वरचैतन्यम् । तेन ईश्वरे न अविद्याकृता दोषाः

प्रभवन्ति । अवच्छेदवादे च ईश्वरस्य सर्वान्तर्यामित्वं न सिद्ध्येत । विवरणकारमते

भामतीकारमते च चैतन्यद्वयं शुद्धचैतन्यं बिम्बं तथा प्रतिबिम्बचैतन्यं तथा अवच्छिन्न-

चैतन्यं जीवः । पञ्चदश्यां कू० दी० प्र० ३ तथा चि० दी० प्र० १८ श्लो०

आभासपर्यायवाची प्रतिबिम्बशब्द इत्यप्याह । विशदज्ञानार्थस् अवच्छेदशब्द: आभास-

शब्दश्च द्रष्टव्यौ ।
 
२८०
 
-
 

 
प्रतिपत्तिः - , प्रतिपत्ति
सिद्धिः उत्पत्तिर्वा । यथा- "तस्मान्न प्रतिपत्तिविषयतया शास्त्र-

प्रमाणकत्वं ब्रह्मणः सम्भवतीत्यतः स्वतन्त्रमेव ब्रह्मशास्त्रप्रमाणकं वेदान्तवाक्य-

समन्वयादिति सिद्धम् (ब्र० सू० १/१/४ शा० भा० ) । इतरथा तु धर्मजिज्ञासैवेति

न शास्त्रान्तरमिति न शास्त्रारम्भत्वं स्यादित्यत आह प्रतिपत्तिविधिपरत्व इति"

(तत्रैव भाम० ) ।
 

 
प्रतिप्रसवः - , प्रतिप्रसव
सर्गरहितः सृष्टिरहित उत्पत्तिरहितो वा । यथा - "पुरुषार्थशून्यानां

गुणानां प्रतिप्रसवः कैवल्यं स्वरूपप्रतिष्ठा वा चितिशक्तिरिति (पा० यो० सू० ४ । ३४)।

यथा च - "यदा प्रकृतिपुरुषयोरन्यथाख्यातिर्भवति तथा सृष्टिर्न भवति सा स्थितिः

प्रतिप्रसव उच्यते । कैवल्यं चोच्यत इति भावः" ।
 
-
 
-
 

 
प्रतिमा - , प्रतिमा
उपमानराहित्यम् । यथा - तस्य ब्रह्मणः प्रतिमा सदृशं वस्त्वन्तरं नास्ति

यस्य (ब्र० सू० ४ । ३ । १५ क० त०) । यथा च - अब्रह्मक्रतवो यान्ति यथा पञ्चाग्नि-

विद्यया ।ब्रह्मलोकं प्रयास्यन्ति प्रतीकोपासकास्तथा (ब्रह्मलोके कार्यब्रह्मलोके) । आश्रयान्तर-

प्रत्ययस्यान्तरे प्रक्षेपः प्रतीकः (तत्रैव भाम०) । यथा च - न च प्रतीकोपासको ब्रह्मोपास्ते