2023-03-12 05:01:19 by ambuda-bot
This page has not been fully proofread.
शाङ्कुरवेदान्तकोशः
प्रतिबिम्बपक्षपातित्वात् । एतन्मते च गगनसूर्यस्य जलादौ भासमानसूर्यस्येव जीवपरयोर्भेदः
(वे० प० ७ प०) । इदं विवरणप्रस्थानानुसारम् । एतन्मते जीवेश्वरयोरभेदेऽपि
अविद्याकृतो भेदः । अत्र एकजीववादे अविद्योपाधिको जीवेशभेदः । प्रतिबिम्बस्य
जीवत्वात् बिम्बस्य ईशत्वात् । नानाजीववादे तु अन्तःकरणतत्संस्कारावच्छिन्ना-
ज्ञानोपाधिकस्य अन्तःकरणतत्संस्कारावच्छिन्नाज्ञानप्रतिबिम्बतचैतन्यस्य जीवत्वात्
बिम्बस्य च ईशत्वात् । एवं च संक्षेपशारीरककृतो मते चैतन्यत्रयम् - शुद्धं चैतन्यम्,
मायायां प्रतिबिम्बितं चैतन्यम् ईश्वरः, अन्तःकरणप्रतिबिम्बितं चैतन्यं जीवः । माया
जगत्कारणमतः कारणोपाधिः, अविद्याकार्यम् अन्तःकरणमतः कार्योपाधिः । एवं
चायमनेकजीववादः । एतन्मते अविद्याकृता दोषा जीव इव ईश्वरेऽपि प्रसज्येरन् ।
विवरणकारमते च बिम्बात्मकमेव ईश्वरचैतन्यम् । तेन ईश्वरे न अविद्याकृता दोषाः
प्रभवन्ति । अवच्छेदवादे च ईश्वरस्य सर्वान्तर्यामित्वं न सिद्ध्येत । विवरणकारमते
भामतीकारमते च चैतन्यद्वयं शुद्धचैतन्यं बिम्बं तथा प्रतिबिम्बचैतन्यं तथा अवच्छिन्न-
चैतन्यं जीवः । पञ्चदश्यां कू० दी० प्र० ३ तथा चि० दी० प्र० १८ श्लो०
आभासपर्यायवाची प्रतिबिम्बशब्द इत्यप्याह । विशदज्ञानार्थस् अवच्छेदशब्द: आभास-
शब्दश्च द्रष्टव्यौ ।
२८०
-
प्रतिपत्तिः - सिद्धिः उत्पत्तिर्वा । यथा- "तस्मान्न प्रतिपत्तिविषयतया शास्त्र-
प्रमाणकत्वं ब्रह्मणः सम्भवतीत्यतः स्वतन्त्रमेव ब्रह्मशास्त्रप्रमाणकं वेदान्तवाक्य-
समन्वयादिति सिद्धम् (ब्र० सू० १/१/४ शा० भा० ) । इतरथा तु धर्मजिज्ञासैवेति
न शास्त्रान्तरमिति न शास्त्रारम्भत्वं स्यादित्यत आह प्रतिपत्तिविधिपरत्व इति"
(तत्रैव भाम० ) ।
प्रतिप्रसवः - सर्गरहितः सृष्टिरहित उत्पत्तिरहितो वा । यथा - "पुरुषार्थशून्यानां
गुणानां प्रतिप्रसवः कैवल्यं स्वरूपप्रतिष्ठा वा चितिशक्तिरिति (पा० यो० सू० ४ । ३४)।
यथा च - "यदा प्रकृतिपुरुषयोरन्यथाख्यातिर्भवति तथा सृष्टिर्न भवति सा स्थितिः
प्रतिप्रसव उच्यते । कैवल्यं चोच्यत इति भावः" ।
-
-
प्रतिमा - उपमानराहित्यम् । यथा - तस्य ब्रह्मणः प्रतिमा सदृशं वस्त्वन्तरं नास्ति
यस्य (ब्र० सू० ४ । ३ । १५ क० त०) । यथा च - अब्रह्मक्रतवो यान्ति यथा पञ्चाग्नि-
विद्यया ।ब्रह्मलोकं प्रयास्यन्ति प्रतीकोपासकास्तथा (ब्रह्मलोके कार्यब्रह्मलोके) । आश्रयान्तर-
प्रत्ययस्यान्तरे प्रक्षेपः प्रतीकः (तत्रैव भाम०) । यथा च - न च प्रतीकोपासको ब्रह्मोपास्ते