This page has not been fully proofread.

शाङ्कवेदान्तकोशः
 
२७९
 
च तत्पदमनन्तसत्यादिपदवदज्ञानानुपहितचैतन्यस्य लक्षणयोपस्थापकमित्याद्या अवान्तरभेदाः
स्वयमूहनीयाः (तत्रैव) । माया तथा अविद्या भिन्नाभिन्नेति एकः पक्षस्तथा माया तथा
अविद्या एकैवेति अपरः पक्षः । उभयोरेकत्वे एकेनैवोपाधिना कथं जीवेश्वरभेदः
स्पादिति शङ्कायामेवमुच्यते यत् सा अविद्या विषयतासम्बन्धेन ईश्वरोपाधिस्तथा आश्रयता-
सम्बन्धेन जीवोपाधिः । अत एव जीवः स्वाश्रिताविद्यया जगत् कल्पयति । अयमेव
दृष्टिसृष्टिवादः । अत एव च सर्वं दृश्यं प्रातिभासिकम् । विद्यारण्यस्वामी प्रतिबिम्बमसत्यं
मनुते । यतोऽस्य मते दर्पणेऽनिर्वचनीयो मुखाभास उत्पद्यते । न तत्र छाया न वा
तत्र स्वतन्त्रं द्रव्यमस्ति । तत्रोपादनकारणं तूलाविद्या । अत आभासस्यैव अपरं नाम
प्रतिबिम्ब इति । विवरणकारमते बिम्बेन सह प्रतिबिम्बस्याभेदात् प्रतिबिम्ब: सत्यः ।
विद्यारण्यस्वामिमते प्रतिबिम्बस्याधिष्ठानं दर्पणावच्छिन्नं चैतन्यं विवरणकारमते च
मुखावच्छिन्नं चैतन्यमधिष्ठानम् । आभासवादः प्रतिबिम्बवादश्च एक एव । अयं भेदः
आभासवादे प्रतिबिम्बोऽनिर्वचनीयस्तथा प्रतिबिम्बवादे दर्पणस्थत्वविपरीतदेशाभि-
मुखत्वादिधर्माः अनिर्वचनीयाः । सर्वज्ञात्ममुनिः प्रतिबिम्बपक्षपाती । किन्त्वस्य मते
एकैवाविद्या न नाना । तथापि यथा नित्या जाति: अनेकव्यक्तिसमवेता एकस्याः
व्यक्तेर्विनाशेऽपरव्यक्त्याश्रिता भवति तथैव एकापि अविधा तत्तद्व्यक्तिनिष्ठा एकस्या
व्यक्तेर्विनाशेऽपरव्यक्तौ तिष्ठति । अत्र संक्षेपशारीरककृतां विवरणकाराणां च मते
प्रतिबिम्बवादस्य स्वरूपं वेदान्तपरिभाषाग्रन्थे इत्थमभ्यधायि - तदेवं स्वरूपतटस्थ-
लक्षणलक्षितं तत्पदवाच्यमीश्वरचैतन्यं मायाप्रतिबिम्बितमिति केचित् । तेषामयमाशयः-
जीवपरमेश्वरसाधारणं चैतन्यमात्रं बिम्बम् । तस्यैव बिम्बस्याविद्यात्मिकायां मायायां
प्रतिबिम्बमीश्वरचैतन्यमन्तःकरणेषु प्रतिबिम्बं जीवचैतन्यम् । कार्योपाधिरयं जीवः
कारणोपाधिरीश्वर इति श्रुतेः । एतन्मते जलाशयगतशरावगतसूर्यप्रतिबिम्बयोरिव
जीवपरमेश्वरयोर्भेदः । अविद्यात्मकोपाधेर्व्यापकतया तदुपाधिकेश्वरस्यापि व्यापकत्वम् ।
अन्तःकरणस्य परिच्छिन्नतया तदुपाधिकजीवस्यापि परिच्छिन्नत्वम् (वे० प० ७ प०) ।
एतत् संक्षेपशारीरककृतां मतानुसारम् । यथा च - एतन्मतेऽविद्याकृता दोषा जीव
इव परमेश्वरेऽपि स्युरुपाधेः प्रतिबिम्बपक्षपातित्वादित्यस्वरसाद् बिम्बात्म-
कमीश्वरचैतन्यमित्यपरे । तेषामाशयः एकमेव चैतन्यं बिम्बत्वाक्रान्तमीश्वरचैतन्यं
प्रतिबिम्बत्वाक्रान्तं जीवचैतन्यम् । बिम्बप्रतिबिम्बकल्पनोपाधिश्चैकजीववादे अविद्या,
अनेकजीववादे तु अन्तःकरणान्येव । अविद्यान्तःकरणरूपोपाधियुक्तो जीवपरभेदः ।
उपाधिकृतदोषाश्च प्रतिबिम्बे जीव एव वर्तन्ते न तु बिम्बे परमेश्वरे । उपाधेः
 
-