2023-03-12 05:01:18 by ambuda-bot
This page has not been fully proofread.
२७८
शाङ्कुरवेदान्तकोशः
अतः प्रतिबिम्बवादे उपाधेर्बाधः प्रतिबिम्बस्य अभेदः सामानाधिकरण्यं च । आभासे
त्वेतद्वैपरीत्येन आभासस्य उपाधेश्च द्वयोबधिः । अत एव च प्रतिबिम्बवादे तत्त्वमसीति-
महावाक्यस्याखण्डार्थबोधे जहज्जहल्लक्षणा अभेदे सामानाधिकरण्यं च स्वीक्रियेते ।
आभासवादेतु तत्त्वमसि इति महावाक्यस्याखण्डार्थबोधे जहल्लक्षणबाधायां च
सामानाधिकरण्यम् अङ्गीक्रियेते । एवमाभासप्रतिबिम्बयोः द्वयोरपि चैतन्यमूलकत्वमङ्गी-
क्रियते । किन्तु आभासस्य चैतन्यमूलकत्वं चितोऽधिष्ठानतया प्रतीयते न तु
चैतन्यस्वरूपावगाहितया । प्रतिबिम्बस्य तु चैतन्यमूलकत्वं बिम्बमूलकत्वेन तथा स्वरूपतो
बिम्बैकस्वरूपलक्षणेनापि प्रतीयते । एवमेव चिल्लक्षणराहित्येन आभासो न वस्तु संस्पर्शं
लभते, किन्तु बिम्बलक्षणानुगतत्वेन प्रतिबिम्बं बिम्बसंस्पर्शि भवति तथापि
यथार्थस्वरूपाग्रहणेन बिम्बाभिन्नं प्रतिबिम्बं प्रतीयते । अपरोऽपि भेदः - आभासवादे
आभासस्योपाधेश्चैकरूप्येण अज्ञानाद्युपाधिरपि आभास एव मन्यते । किन्तु प्रतिबिम्बवादे
प्रतिबिम्बस्यौपाधिकपरिच्छेदशून्यत्वेन अज्ञानाद्युपाधिः प्रतिबिम्बं न मन्यते । ब्रह्मसिद्धौ
प्रथमकाण्डे श्रीमण्डनमिश्रेणापि प्रतिबिम्बवाद: समर्थितः दर्पणतलस्थमात्मानं
विभक्तमिवात्मनं प्रत्येति । अपरोऽपि भेदः - आभासाय गुणस्य प्रकारस्य वापेक्षा ।
प्रतिबिम्बस्य कृते द्रव्यस्यापेक्षा । आभासे उपाधिः स्वगुणेन सर्वमुपाधेयं व्याप्नोति ।
आभासे आभास्यमाने उपाधेर्भिन्नतया अभिन्नतया न शक्यते वक्तुं केवलमाभासमात्रमेव
शक्यते वक्तुम् । प्रतिबिम्बं तु बिम्बेन सह समानरूपम् । अयमेव विशेषः प्रतिबिम्बवादं
विशिनष्टि ।आभासे उपाधिः स्वगुणं स्वस्मात् पार्थक्येन उपाधेये दर्शयति । यथा स्फटिके
रक्तं पुष्पं रक्तिमानं दर्शयति । प्रतिबिम्बे तु उपाधिः स्वान्तःस्थतया उपाधेयं दर्शयति
यथा दर्पणादिः । अत्र अविधा अन्तःकरणं वा स्वान्तःस्थतया चैतन्यं दर्शयति । पञ्चदश्यां
तृप्तिप्रकरणे कू० दी० प्रक० चि० दी० प्रक० च आभासप्रतिबिम्बवादयोरैक्यमपि
प्रतिपादितम् । बिम्बप्रतिबिम्बविषये श्रीमधुसूदनसरस्वतीभिरुक्तं यत् - अज्ञानोपहितं
बिम्बचैतन्यमीश्वरः । अज्ञानप्रतिबिम्बितं चैतन्यं जीव इति वा अज्ञानानुपहितं शुद्धं
चैतन्यमीश्वरः अज्ञानोपहितं च जीव इति वा मुख्यो वेदान्तसिद्धान्तः एकजीववादाख्यः ।
इममेव च दृष्टिसृष्टिवादमाचक्षते । अस्मिश्च पक्षे जीव एव स्वाज्ञानवशाज्जगदुपादानं
निमित्तं च । दृश्यं च सर्वं प्रातीतिकम् । देहभेदाच्च जीवभेदभ्रान्तिः (सि० बि० १)
प्रतिबिम्बवादपक्ष एकजीववादस्वीकारे एकस्य जीवस्य मोक्षे सर्वेषां मोक्षप्रसङ्गः स्यादिति
शङ्का सि० बि० इत्थं समाहिता- एकस्यैव च स्वकल्पितगुरुशास्त्राद्युपहित श्रवणमन-
नादिदार्यादात्मसाक्षात्कारे सति मोक्षः शुकादीनां मोक्षश्रवणं चार्थवादः । महावाक्ये
-