This page has been fully proofread once and needs a second look.

शाङ्कुरवेदान्तकोशः
 
प्रतिबिम्बनम् - , प्रतिबिम्बन
प्रातबिम्बशब्दवत् ।
 
-
 
२७७
 
-
 
-
 

 
प्रतिबिम्बवादः - , प्रतिबिम्बवाद
शाङ्कराद्वैतवादे एकमेवाद्वितीयमित्यादिश्रुतिबलादेकमेव ब्रह्म

परमार्थतः सर्वस्वम् । अविद्याद्वारा तदेकं ब्रह्म जीवजगदादिरूपेण प्रतीयते । एतप्रतीत्यर्थं

त्रयो वादा अवलम्बिताः- प्रतिबिम्बवादः आभासवादः अवच्छेदवादश्च । तत्र

प्रतिबिम्बवादः श्री पद्मपादाचार्यप्रकाशात्ममुनिसर्वज्ञात्ममुनिप्रभृतीनाम्, आभासवादः

श्रीसुरेश्वराचार्यप्रभृतीनाम् ।अवच्छेदवादश्च श्रीवाचस्पतिमिश्रप्रभृतीनाम् ।प्रतिबिम्बवादे

बिम्बस्थानीयं ब्रह्म तथा प्रतिबिम्बस्थानीयो जीवादिः । उपनिषद्ब्रह्मसूत्रादिषु सूर्यप्रतिबिम्बो

दृष्टान्तेनोपन्यस्तः । यथा – तदुच्यते बृद्धिहासभाक्त्वमिति जलगतो हि सूर्यप्रतिबिम्बो

जलबृद्धौ ह्रसति जलचलने चलति जलभेदे भिद्यते इत्येवं जलधर्मानुयायी भवति न

तु सूर्यस्य तथात्वमस्ति (ब्र० सू० ३।२।२० शा० भा०) । यथा च - उदशरावादि-

कम्पनात्तद्गते सूर्यप्रतिबिम्बे कम्पमानेऽपि न तद्वान् सूर्यः कम्पते (ब्र० सू० २।३।४६

शा०भा० ) । यथा च बुद्ध्युपाधिस्वभावानुविधायी हि स चन्द्रादिप्रतिबिम्ब इव

(बृ० उ० २।१।९ शा० भा०) । अयं प्रतिबिम्बवादः प्र० उ० ४९, क० उ० ६/२,

मु० उ० ३।९ ऐ० उ० ३१ शा० भा० समर्थितः । पञ्चपादिकायाम्, पञ्चपादिका-

विवरणे संक्षेपशारीरके च प्रतिबिम्बवादः स्वीकृतः । अवच्छेदवादे आभासवादे च काले

काले भिद्यमानेनोपाधिना विभिद्यमानस्य जीवकर्मफलानुभवे कृतहानाकृताभ्युपगमादयो

दोषाः प्रसज्येरन् । इमे दोषाः प्रतिबिम्बवादे न सम्भवन्ति । बहवो अद्वैतवेदान्ति-

नोऽवच्छेदाभासवादापेक्षया प्रतिबिम्बवादमेव समर्थयन्ति । प्रतिबिम्बस्येदं लक्षणम् -

दर्पणाद्युपाध्यन्तर्गतत्वे सत्यौपाधिकपरिच्छेदशून्यत्वे च सति बहिः स्थितस्वरूपकत्वम् ।

तथा बिम्बस्येदं लक्षणम् - उपाध्यनन्तर्गतत्वे सति उपाध्यन्तर्गतरूपाभिन्नवहिः-

स्थितत्वम् (सि० बि० १ न्यायरलावलीटीकायाम्) । यथा चोक्तम्- अज्ञानोपहितं

बिम्बचैतन्यमीश्वरः। अन्तःकरणतत्संस्कारावच्छिन्नाज्ञानप्रतिबिम्बितं चैतन्यं जीव

इति विवरणकाराः । अज्ञानप्रतिबिम्बितं चैतन्यमीश्वरः । बुद्धिप्रतिबिम्बितं चैतन्यं

जीवः । अज्ञानानुपहितं तु बिम्बचैतन्यं शुद्धमिति संक्षेपशारीरककाराः । अनयोश्च

पक्षयोर्बुद्धिभेदाज्जीवनानात्वम् । प्रतिबिम्बस्य च पारमार्थिकत्वाज्जहदजहल्लक्षणैव

तत्त्वमादिपदेषु । इममेव च प्रतिबिम्बवादमाचक्षते (सि० वि० १) । पुनश्चात्रैव-

तस्य च प्रतिबिम्बस्य सत्यत्वमेवेति श्रुतिबिम्बवादिनः मिथ्यात्वमेवेत्याभास-

वादिनः । स्वरूपे तु न विवाद एवेत्यन्यदेतत् (सि० वि० १) पारमार्थिक-

बिम्बैकरूपे प्रतिबिम्बे सत्यत्वम् । आभासः स्वरूपतो मिथ्या लक्ष्यत्वेन सत्यः ।
 
-
 
-