This page has been fully proofread once and needs a second look.

शाङ्कुरवेदान्तकोशः
 
प्रणवः, प्रणव
उद्गीथः (आदित्यः) । यथा - अथ खलु य उद्गीथः स प्रणवो बह्वृचानां

यश्च प्रणवस्तेषां स एव च्छान्दोग्य उद्गीथशब्दवाच्यः । असौ वा आदित्य उद्गीथ

एष प्रणवः .....उद्गीथ आदित्यः (छा० उ० १/५/१ शा० भा० ) ।

 
प्रणश्यति - , प्रणश्यति
अन्तःकरणे नष्टे जीवभावो नश्यति । यथा - बुद्धिनाशा-

प्रणश्यति तावदेव हि पुरुषो यावदन्तःकरणं तदीयं कार्याकार्यविषयविवेकयोग्यं,

तदयोग्यत्वे नष्ट एव पुरुषो भवत्यतस् तस्यान्तःकरणस्य बुद्धेर्नाशाप्रणश्यति

(गी० २।६३ शा० भा० ) ।
 
२७६
 
-
 

 
प्रणिधानम् - , प्रणिधान
१. ध्यानविशेषः । चिन्तनविशेषरूपः । २. समाधिविशेषः तथा

भक्तिविशेषः । यथा – ईश्वरप्रणिधानाद्वा (पा० यो० सू० १।२३) । ३. अर्पणम् ।

(४) कर्मणां फलत्यागः (पा० यो० सू० २।१) ।५. सुस्मूर्षया मनसोधारणम् (वात्स्या०

३।२।४२ अत्र सुस्मूर्षा च स्मर्तुमिच्छा) ।
 

 
प्रतिबिम्ब: - , प्रतिबिम्ब
बिम्बभूतस्य पदार्थस्य आदर्शजलादिस्वच्छद्रव्येषु प्रतिफलनम् ।

आदर्शजलादौ सूर्यमुखादेर्विम्बस्य प्रतिफलनं प्रतिबिम्बः । यथा- जलगतो हि सूर्यप्रतिबिम्बो

जलवृद्धौ वर्द्धते जलहासे इसति जलचलने चलति जलभेदे भिद्यते (ब्र० सू० ३।२/२०

शा० भा०) । यथा चोदशरावादिकम्पनात् तद्गते सूर्यबिम्बे कम्पमानेऽपि न तद्वान्

सूर्यः कम्पते (ब्र० सू० २ । ३ । ४६ शा० भा० ) । रूपवद्रव्याणामेव प्रतिबिम्बः ।

भामतीकारोऽकथयद् रूपरसगन्धादीनां किदृशी प्रविबिम्बता । किन्तु शाङ्कराद्वैतिनो

नीरूपस्यापि परब्रह्मणः प्रतिबिम्बत्वं स्वीकुर्वन्ति । यथा जले आकाशस्य । यथा - न

च रूपहीनस्य ब्रह्मणो न प्रतिबिम्बसम्भवः । रूपवत एव तथात्वदर्शनादिति वाच्यम् ।

नीरूपस्यापि रूपस्य प्रतिबिम्बदर्शनात् । न च नीरूपस्य द्रव्यस्य प्रतिबिम्बाभावनियमः ।

आत्मनि द्रव्यत्वाभावस्योक्तत्वात् । ...... एकधा बहुधा चैव दृश्यते जलचन्द्रवत् । ब्र०

वि० उप० १२ (वे० प० ७ प०) । यथा च - किं प्रतिबिम्बोपाधेर्वस्तुतो रूपवत्त्वं

प्रतिबिम्बने प्रयोजकमिष्यते उत रूपवत्त्वेन ग्रहणम् । आद्ये नात्मनोऽन्तःकरणे

प्रतिबिम्बनानुपपत्तिः । अन्तःकरणस्य त्रिवृत्करणेन पञ्चीकरणेन वा रूपवत्त्वात् । न

द्वितीयः निजरूपवत्त्वेनागृह्यमाणेऽपि स्फटिकं सन्निहितजपाकुसुमप्रतिबिम्बनेन अरुणः

स्फटिक इति व्यवहारदर्शनात् (ब्र० सू० १ । १ ।४ क० त० प०) । विवरणप्रस्थानस्यायं

प्रतिबिम्बपक्षः। विवरणप्रमेयसङ्ग्रहे सिद्धान्तलेशसद्वितीय-परिच्छेदे च विशदं

वर्णितोऽयं पक्षः ।