This page has been fully proofread once and needs a second look.

शाङ्करवेदान्तकोशः
 
२७५
 
भा० ) । यथा च - सर्वं तत्प्रज्ञानं प्रज्ञाने प्रतिष्ठितं प्रज्ञानेत्रो लोकः प्रज्ञा प्रतिष्ठा

प्रज्ञानं ब्रह्म (ऐत० ५ ३ ) । (ब्र० सू० ३।३।१७) । यथा च यः शरीरे प्रविष्टः

परमेश्वर एष एव ब्रह्म परमात्मा प्रजापतिर्हिरण्यगर्भोऽप्येष एव । प्रज्ञा ब्रह्मचैतन्यं

नीयतेऽनेनेति नेत्रं नियन्तृ यस्य तत् प्रज्ञानेत्रम् । प्रज्ञाने तस्मिन्नेवाधिष्ठाने प्रतिष्ठितम् ।

लोकोऽपि भूरादिप्रज्ञानेत्रःप्रज्ञानियन्तृकः । सैव प्रज्ञा सर्वस्य लोकस्य प्रतिष्ठाधिष्ठानम् ।

तच्च प्रज्ञानं ब्रह्म (ब्र० सू० ३।३।१७ क० त० ) ।
 

 
प्रज्ञानघनः
 
-
 
, प्रज्ञानघन
घनप्रज्ञः । मनोव्यापाराभावात् ।
हृत्स्मरणव्यापारोपरमः

एकीभूतः । यथा - यथात्र तथास्वप्ने । अतो मनस्यन्तस्तु तैजसोऽपि विश्व एव ।

आकाशे च हृदि स्मरणाख्यव्यापारोपरमे प्राज्ञ एकीभूतो घनप्रज्ञ एव भवति ।

मनोव्यापाराभावात् दर्शनस्मरणे....परिच्छिन्नाभिमानिनामध्यक्षाणां च तेनैकत्वमिति

पूर्वोक्तं विशेषणमेकीभूतः प्रज्ञानघन इत्युपपन्नम् (मा० उ० १ ४ शा० भा० ) ।

यथा च उपाध्युत्पत्त्यास्योत्पत्तिस्तालयेन च प्रलय इति । तथा च दर्शयति-

प्रज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति न प्रेत्यसंज्ञास्ति (बृ०

आ० ४।५।१३) । यथा. च- तथोपाधिप्रलय एवायं नात्मविलय इति (ब्र० सू०

२।३।१७ शा० भा० ) ।
 

 
प्रज्ञानं ब्रह्म- , प्रज्ञान ब्रह्मन्
वेदान्तस्य चत्वारि महावाक्यान्युच्यन्ते- ऐ० आ० -प्रज्ञानं ब्रह्म

(ऋ० वे०) तत्त्वमसि (छा० उ० ६।८।७ सा० वे०) अहं ब्रह्मास्मि (बृ० आ०

उ० १।४।१० य० वे०) अयमात्मा ब्रह्म (मा० उ० २ अ० वे०) एतेषु महावाक्येषु

प्रज्ञानं ब्रह्म इति ऋग्वेदीयं महावाक्यम् । अस्यार्थो ब्रह्मणः स्वरूपं ज्ञानमिति ।
 
-
 

 
प्रज्ञामात्राः, प्रज्ञामात्राः
इन्द्रियाणि (उपचारेण ) । यथा - प्रज्ञाशब्दः इन्द्रियाण्यप्युपलक्षयति ।

इन्द्रियेषु तज्ज्ञानेषु च दश प्रज्ञामात्राः इन्द्रियतज्जप्रज्ञाः अधिभूतेषु ग्राह्यग्राहक-

योरन्योन्यापेक्षत्वादकल्पितत्वमतोऽद्वैतं तत्त्वमित्यर्थः (ब्र० सू० १/१/३१ वे० क०

त० ) । यथा च - दशैव भूतमात्रा अधिप्रज्ञमित्यादिना ग्राह्यग्राहकाणामन्योन्यसापेक्ष-

सिद्धित्वोक्त्यनन्तरं नो एतानानेति तदैक्योपसंहारादद्वैतं तत्त्वं दर्शितमिति

भावः (तत्रैव वे० क० त० प० ) ।
 
-
 
-
 

 
प्रणय:
 
, प्रणय
ब्रह्मप्रापकः (उपचारेण) । यथा - प्रकृष्य नयः प्रणयः प्रत्यगर्थस्य

भागलक्षणया विरूद्धांशाप्रकृष्य तत्पदार्थं प्रति नयनादित्यर्थः । यद्वा प्रणयो भक्तिस्तया

हि प्रत्यगभिन्ने ब्रह्मणि चित्तमेकाग्रं भवति (सं० शा० १ सु० टी०) ।