This page has not been fully proofread.

२७४
 
शाङ्कुरवेदान्तकोशः
 
श्रुतः । प्रधानक्षेत्रज्ञपतिर्गुणेश इति हि श्रुतिः । आरण्यकेऽसम्भ्रमेण ह्यन्तर्याम्युपपादितः।
अत्रापि कलहायन्ते वादिनः स्वस्वयुक्तिभिः । वाक्यमपि यथाप्रज्ञं दार्यायोदाहरन्ति
हि । क्लेशकर्मविपाकैस्तदाशयैरप्यसंयुतः । पुंविशेषो भवेदीशो जीववत् सोऽप्य-
सङ्गचित् (प० ८० ६/१०२-१०५ ) ।
 
-
 
प्रकृष्टप्रकाशश्चन्द्रः प्रकृष्टप्रकाशः इत्यत्र यथा - शब्दद्वयमखण्डार्थं
चन्द्ररूपमर्थं वक्ति । तथा सच्चिदानन्दशब्दः अखण्डं ब्रह्मरूपमर्थं वक्ति । यथा च-
यथेह ज्योतिश्चक्रे कश्चन्द्रः इति प्रश्ने = प्रकृष्टप्रकाशशब्दौ स्वार्थत्यागेनाखण्डां
चन्द्रव्यक्तिं लक्षयतस्तथा किं ब्रह्मेत्याकाङ्क्षायां सच्चिदानन्दादिशब्दावपि इत्यर्थ: (सं०
शा० १ । २२६ सु० टी०) । यथा च - शशाङ्कादिशब्दार्थसङ्कीर्त्तने शशाङ्कश्चन्द्र इत्यादि-
शब्दार्थस्योद्देशे सति यथा प्रकृष्टप्रकाशध्वनी लक्षणावर्त्मनैकां चन्द्रव्यक्तिमुपक्षिपेतां
चन्द्रस्वरूपे जिज्ञासिते सति प्रकृष्टप्रकाशश्चन्द्र इति लक्षणनिर्देशेन जिज्ञासितश्चन्द्र-
स्वरूपपरे वाक्ये यथा प्रकृष्टपदं चापकृष्टाप्रकाशवत् वस्तुव्यावृतं चन्द्रप्रतिपादिकार्थं
लक्षणया बोधयत इत्यर्थः (तत्रैव अ० टी०) ।
 
-
 
-
 
प्रजापतिः - विराट् । यथा - प्रजापतिर्विराट् (ब्र० सू० ४ । ३ । ३ क० त०) ।
यथा च – समस्तस्थूलाभिमानी विराट् समष्टिसूक्ष्मशरीराभिमानी हिरण्यगर्भः इति भेदः
(तत्रैव क० त० परि०) । यथा च - प्रजापतिः कर्मज्ञानाधिकृतः पुरुषः । पुरुष एव
उक्थमयमेव महान्प्रजापतिरिति श्रुत्यन्तरात् (छा० उ० १ ।२।१ शा० भा०) ।
 
प्रज्ञा-
१. प्राणः (उपचारेण) । यथा - यो वै प्राणः सा प्रज्ञा । या वै प्रज्ञा
स प्राणः । सः ह्येतावस्मिन् शरीरे वसतः सोत्क्रामतः इति....मामेव विजानीहि
इत्युपक्रम्य प्राणोऽस्मि प्रज्ञात्मा तं मामायुरमृतमित्युपास्व, इत्युक्त्वा अन्ते स एव प्राण
एव प्रज्ञात्मानन्दोऽजरोऽमृतः । इत्येकरूपावुपक्रमोपसंहारौ दृश्येते । तत्रार्थैकत्वं
युक्तमाश्रयितुम् (ब्र० सू० १/१/३१ शा० भा०) । २. प्रज्ञा = बुद्धिः । यथा - प्रज्ञाः
बुद्धयः नियन्ते शब्दादयः आभिरिति मात्रा इन्द्रियाणि (तत्रैव वे० क० त० ) ।
 
-
 
प्रज्ञानम् - १. (क) ब्रह्म । यथा च तदन्तःकरणोपाधिस्थस्योपलब्धप्रज्ञान-
रूपस्य ब्रह्मणः उपलब्ध्यर्थाः या अन्तःकरणवृत्तयो बाह्यान्तरवर्तिविषयविषयास्ता इमा
उच्यन्ते (ऐ० उ० ५।२ शा० भा०) । (ख) ब्रह्मज्ञानं प्रज्ञानेनैनं प्रकृतमात्मान-
माप्नुयात् । यस्तु दुश्चरिताद् विरत इन्द्रियलौल्याच्च समाहितचित्तः समाधानफलादप्युप-
शान्तमानसश्चाचार्यवान् प्रज्ञानेन यथोक्तमात्मानं प्राप्नोतीत्यर्थः (का० उ० २।२४ शा०