This page has been fully proofread once and needs a second look.

शाङ्कुरवेदान्तकोशः
 
२७३
 
च ते मते । मायाबिम्बो वशीकृत्य तां स्यात् सर्वज्ञ ईश्वरः । सहेतुकं द्वैविध्यमेव

दर्शयति सत्त्वेति । सत्त्वस्य प्रकाशात्मकस्य गुणस्य शुद्धिः गुणान्तरेणाकलुषीकृतता

अविशुद्धिः । गुणान्तरेण कलुषीकृतत्वं ताभ्यां सत्त्वशुध्यविशुद्धिभ्यां ते च द्विविधं

मायाविद्ये इति मायेत्यविद्येति च मते सम्मते । विशुद्धसत्त्वप्रधाना माया मलिन-

सत्त्वप्रधाना अविद्येत्यर्थः (प० द० १ । १६ रा० कृ० टी०) ।३. जडात्मको भगवदंशविशेषः

इति वाल्लभाः । लक्ष्मीरिति माध्वाः । शब्दविशेषः इति शाक्ताः । सा च शक्तिः

गणेशजननी दुर्गा, राधा, लक्ष्मीः, सरस्वती, सावित्री । प्रकृतिः विष्णुरिति पूर्णप्रज्ञाचार्याः ।

ब्रह्मसूत्रे – प्रकृतिश्च प्रतिज्ञादृष्टान्तानुरोधात् (१।४।२४) । प्रातिपदिकं धातुश्च

प्रकृतिरिति शाब्दिकाः । समग्राङ्गोपदेशः प्रकृतिः यथा - दर्शपूर्णमासादिरूपप्रधानयागः

प्रकृतिः(ईष्ट्यग्निहोत्रसोमाः प्रकृतयः) । यत्र कर्त्तव्यं सर्वं प्रकर्षेण कर्मान्तरनैरपेक्ष्येणोप-

दिश्यते सा प्रकृतिः इति पूर्वमीमांसकाः ।
 
-
 
-
 

 
प्रकृतिस्थः, प्रकृतिस्थ
अविद्योपहितः (जीवः) । यथा - प्रकृतिस्थःप्रकृतावविद्यालक्षणायां

कार्यकारणरूपेण परिणतायां स्थितः प्रकृतिस्थः प्रकृतिमात्मत्वेन गत इत्येतद्धि यस्मात्

तस्मात् भुङ्क उपलभत इत्यर्थ: (गी० १३/२१ शा० भा०) । यथा च - प्रकृतिस्थानि

स्वस्थाने कर्णशष्कुल्यादौ प्रकृतौ स्थितानि कर्षत्याकर्षति (गी० १५/७ शा० भा०) ।

प्रकृतिस्थानि इन्द्रियाणां प्रकृतिः स्वभावो विषयप्रावण्यं तत्र स्थितानि (तत्रैव नी०

क० ) । यथा च - प्रकृतिस्थानि प्रकृतावज्ञाने सूक्ष्मरूपेण स्थितानि पुनर्जाग्रद्भोग-

जनककर्मोदये भोगार्थं कर्षति (तत्रैव म० सू०) । यथा च - प्रकृतिस्थानि प्रकृतावज्ञाने

सूक्ष्मरूपेण स्थितानि पुनर्जाग्रद्भोगजनककर्मोदये भोगार्थं कर्षति (तत्रैव भाष्यो०)।

यथा च – प्रकृतौ लीनतया स्थितानि सोपाधिभूतानीन्द्रियाण्याकर्षति (तत्रैव श्रीधरी) ।

यथा च - पुरुषो भोक्ता प्रकृतिस्थः प्रकृतावविद्यालक्षणायां कार्यकारणरूपेण परिणतायां

स्थितः प्रकृतिस्थः (गी० १३/२१ शा० भा०) । यथा च - प्रकृतिस्थः देहेन्द्रियमनः-

संघातमध्यारूढ़स्तत्तादात्म्यं गत इत्यर्थः । प्रकृतिर्माया तां मिथ्यैव तादाम्येनोपगतः

प्रकृतिस्थो हि यस्मात् पुरुषो भोक्ता प्रकृतावविद्यालक्षणायां स्थितस्तदैक्याध्यासं

प्राप्तस्तस्मात्सुखी दुःखी मूढ़ः पण्डितोऽहमित्येवं प्रकृतेः जातान्सुखदुःखमोहाकाराभि-

व्यक्तान्गुणान् सत्त्वादीन् भुङ्क्ते उपलभते (तत्रैव भाष्यो०) । यथा च - हि यस्मात्

प्रकृतिस्थः तत्कार्यदहे तादाल्येन स्थितः पुरुषः (तत्रैव श्रीधरी) ।
 
-
 
--
 
1
 

 
प्रकृतेः नियामकाः - , प्रकृति नियामक
ईश्वरः (पुरुषविशेषः स इति केचन) । यथा च-

चित्सन्निधौ प्रवृत्तायाः प्रकृतेर्हि नियामकम् । ईश्वरं ब्रुवते योगाः स जीवेभ्यः परः