This page has been fully proofread once and needs a second look.

२७२
 
शाङ्करवेदान्तकोशः
 
-
 
ये विदुर्जानन्ति ते परं परमार्थतत्त्वं यान्ति गच्छन्ति पुनर्देहं नाददत इत्यर्थः (तत्रैव

भाष्यो०) । यथा च तथा येयमुक्ता भूतानां प्रकृतिस्तस्या सकाशान्मोक्षं मोक्षोपायं

ध्यानादिकं च ये विदुस्ते परं पदं यान्ति (तत्रैव श्रीधरी) । (ग) यथा च - दैवीं देवानां

प्रकृतिं शमदमदयाश्रद्धादिलक्षणामाश्रिताः सन्तो भजन्ति सेवन्ते (तत्रैव ९ । १३) । यथा
 
-
 
-
 
-
 

च - महाननेकजन्मकृतसुकृतैः संस्कृतः क्षुद्रकामाद्यनभिभूत आत्मान्तःकरणं येषां ते

अत एव अभयं सत्त्वशुद्धिः इत्यादिवक्ष्यमाणां दैवीं सात्त्विकीं प्रकृतिमाश्रिताः (तत्रैव

म० सू०) । (घ) यथा च - तेषां कार्यकरणानां कर्तृत्वमुत्पादकत्वं यत्तत्कार्यकरणकर्तृत्त्वं

तस्मिन् कार्यकरणकर्त्तृत्वे हेतुः कारणमारम्भकत्वेन प्रकृतिरुच्यते । एवं कार्यकरण-

कर्तृत्वेन संसारस्य करणं प्रकृतिः । कार्यकारणकर्तृत्व इत्यस्मिन्नपि पाठे कार्यं यद्यस्य

परिणामस्तत्तस्य कार्यं विकारो विकारिकारणं तयोर्विकारविकारिणोः कार्यकारणयोः

कर्तृत्व इति । अथवा षोडशविकाराः कार्यम्, सप्त प्रकृतिविकृतयः करणं तान्येव

कार्यकारणान्युच्यन्ते । तेषां कर्तृत्त्वे हेतुः प्रकृतिरुच्यत आरम्भकत्त्वेनैव (तत्रैव १३ ।२०

शा० भा० ) । यथा च गुणाश्च सुखदुःखमोहात्मका: करणाश्रयत्वात्करणग्रहणेन

गृह्यन्ते । तेषां कार्यकरणानां कर्तृत्वे तदाकारपरिणामे हेतुः कारणं प्रकृतिरुच्यते

महर्षिभिः । कार्यकारणेति पाठेऽपि स एवार्थ: (तत्रैव म० सू०) । यथा च तेषां

कार्यकारणानां कर्तृत्वे उत्पादकत्वे प्रकृतिरारम्भकत्त्वेन हेतुः कारणमुच्यते । एवं

कार्यकरणकर्तृत्त्वेन संसारस्य कारणं प्रकृतिरुक्ता । कार्यकारणकर्त्तृत्व इति पाठेऽप्ययमेवार्थः ।

यद्वा एकादशेन्द्रियाणि पञ्च विषयाः षोडश विकाराः कार्यं महानहङ्कारो भूततन्मात्राणि

पञ्चेति सप्तप्रकृतिविकृतयः कारणं तेषां कर्तृत्त्वे हेतुः प्रकृतिरुच्यत इत्यर्थः (तत्रैव

भाष्यो०)। २. प्रकृष्टा कृतिः प्रधानम् । सत्त्वरजस्तमसां साम्यावस्था प्रकृतिः ।

अव्यक्तमिति सांख्ययोगविदः । यथा च महतः परमव्यक्तमिति प्रकृतिरुच्यते ।

श्रुतावसङ्गता तद्वदसङ्गो हीत्यतः स्फुटा (प० द० ६।१०१ ) । यथा च - जाड्यांशः

प्रकृतेः रूपं विकारि त्रिगुणं च तत् चितो भोगापवर्गार्थं प्रकृतिः सा प्रवर्त्तते

(तत्रैव ६।९९) । यथा च - चिदानन्दमयब्रह्मप्रतिबिम्बसमन्विता । तमोरजः सत्त्वगुणा

प्रकृतिर्द्विविधा च सा (प० द० १ ।१५) । इदानीं प्रतिबन्धहेतुभूतामविद्यां प्रतिपादयितुं

तन्मूलभूतां प्रकृतिं व्युत्पादयति - चिदानन्देति । सच्चिदानन्दरूपं ब्रह्म तस्य प्रतिबिम्बेन

प्रतिच्छायया समन्विता युक्ता । तमोरजः सत्त्वगुणाः सत्त्वरजस्तमोगुणानां साम्यावस्था

या सा प्रकृतिरित्युच्यते । सा च द्विविधा द्विप्रकारा भवति । चकाराद्वक्ष्यमाणं प्रकारान्तरं

सूचयति (अत्र रा० कृ० टी०) । प्रकृति द्वैविध्यम् सत्त्वशुद्ध्यविशुद्धिभ्यां मायाविद्ये
 
-