This page has been fully proofread once and needs a second look.

शाङ्करवेदान्तकोशः
 
-
 
-
 

 
अयमर्थः – जीवात्मनो ह्यनात्मभूतां प्रकृतिं तेजोबन्नात्मिकां पञ्चभूतात्मिकां वाधिष्ठाय

सम्भवन्ति जन्मादींल्लभन्ते अहन्तु स्वां प्रत्यगनन्यां प्रकृतिं प्रत्यक् चैतन्यमेवेत्यर्थः ।

तदेवाधिष्ठाय न तूपादानान्तरम् (तत्रैव नी० क० ) । यथा च स च भगवान्

ज्ञानैश्वर्यशक्तिबलवीर्यतेजोभिः सदा सम्पन्नस्त्रिगुणात्मिकां वैष्णवीं स्वां मायां प्रकृतिं.

वशीकृत्याजोऽव्ययो भूतानामीश्वरो नित्यशुद्धबुद्धमुक्तस्वभावोऽपि सन् स्वमायया

देहवानिव जात इव च लोकानुग्रहं कुर्वंल्लक्ष्यते स्वप्रयोजनाभावेऽपि भूतानुजिघृक्षयेति

(तत्रैव म० सू०) । यथा च - प्रकृतेः प्रकृतिः प्रधानं सत्त्वरजस्तमसां गुणानां साम्यावस्था

तस्याः प्रकृतेः गुणैः विकारैः कार्यकारणरूपैः क्रियमाणानि कर्माणि .... ( तत्रैव ३ । २७

शा० भा०) । यथा च - कर्मस्वविद्वान् आसक्तिप्रकारं प्रकटयन् व्याकरोति- प्रकृतेरि

त्यादिना । प्रधानशब्देन मायाशक्तिरुच्यते । अविद्ययेत्युभयतः सम्बध्यते (तत्रैव आ०

टी० ) । यथा च प्रकृतेः पारमेश्वर्याः सत्त्वरजस्तमोगुणात्मिकायाः देवात्मशक्तिं-

स्वगुणैर्निरुद्धाम् इति श्रुतिप्रसिद्धायाः शक्तेर्गुणैः कार्यकारणसंघात्मकैः .... (तत्रैव नी०

क० ) । यथा च - प्रकृतिर्माया सत्त्वरजस्तमोगुणमयी मिथ्याज्ञानात्मिका माहेश्वरी

शक्तिः । मायान्तु प्रकृतिं वियान्मायिनं तु महेश्वरमिति श्रुतेः (तत्रैव म० सू०) यथा

च – प्रकृत्या प्रकृतिर्भगवतो माया त्रिगुणात्मिकां मायां तु प्रकृतिं विद्यादिति मन्त्रवर्णात्तया

प्रकृत्या (गी० १३/२९ शा० भा०) । यथा च - सर्वशः सर्वप्रकारेण कर्माणि

वाङ्मनः कायैरारब्धानि प्रकृत्यैव क्रियमाणानीति यः पश्यति तथात्मानं चाकर्तारं यः

पश्यति पूर्वोक्तरीत्या स एव सर्वत्र समं पश्यतीति पूर्णेनान्वयः (तत्रैव नी० क०) ।

यथा च – कर्माणि वाङ्मनःकायारभ्याणि सर्वशः सर्वैः प्रकारैः प्रकृत्यैव देहेन्द्रियसंघाताकार-

परिणतया सर्वविकार- कार्यकारणभूतया त्रिगुणात्मिकया भगवन्माययैव क्रियमाणानि

...... पश्यति (तत्रैव म० सू० ) । यथा च - प्रकृतिस्त्रिगुणात्मिका भगवतो माया

(तत्रैव भाष्यो०) । यथा च - प्रकृत्यैव देहेन्द्रियाकारेण परिणतया सर्वशः सर्वैः प्रकारैः

क्रियमाणानि कर्माणि यः पश्यति (तत्रैव श्रीधरी) । (ख) यथा च - भूतप्रकृतिमोक्षं

च भूतानां प्रकृतिरविद्यालक्षणाऽव्यक्ताख्या तस्या भूतप्रकृतेर्मोक्षणमभावगमनं च ये

विदुर्विजानन्ति यान्ति गच्छन्ति ते परं परमार्थतत्त्वं ब्रह्म न पुनर्देहमाददत्त इत्यर्थः (गी०

१३।३४ शा० भा०) । यथा च - भूतप्रकृतिमोक्षं च भूतानां सर्वेषां प्रकृतिरविद्या

मायाख्या तस्याः परमार्थात्मविद्यया मोक्षमभावगमनं च ये विदुर्जानन्ति यान्ति

ते परम् । परमार्थात्मवस्तुस्वरूपं कैवल्यं न पुनर्देहमाददत इत्यर्थः (तत्रैव म० सू०) ।

यथा च प्रकृतिरविद्यालक्षणाऽव्यक्ताख्या तस्या भूतप्रकृतेः परमार्थात्मविद्यया मोक्षमभावगमनं
 
२७१