This page has not been fully proofread.

शाङ्कुरवेदान्तकोशः
 
पुरुषस्पन्दः - पुरुषव्यापारः (व्याकरणशास्त्रानुसारी ) । यथा च - "एक एव
पूर्वदेशविभागोत्तरदेशसंयोगरूपफलद्वयस्याप्यनुकूलो व्यापारः पुरुषस्पन्दः"
( ब्र० सू० १/१/४ क० त० परि० ) ।
 
हि
 
२७०
 
-
 
पुरुषार्थः - १. पुरुषस्यार्थः प्रयोजनमिति । स च धर्मार्थकाममोक्षाख्यरूपः ।
मोक्षः परमपुरुषार्थः इत्यद्वैतवेदान्तिनः । २. पुरुषप्रीतये विधीयमानः पुरुषार्थः
इति पूर्वमीमांसकाः । ३. स तु पुरुषान्यताख्यातिः पुरुषार्थः इति सांख्ययोगविदः ।
४. बलवद्वेषाविषयः इति लौकिकाः ।
 
पूर्तम् - वाप्यादि स्मार्तं कर्म । यथा- पूर्वं स्मार्तं वाप्यादि (ब्र० सू० १ । १ ।४
वे० क० त० ) । यथा च - पूर्तं स्मार्तम् (तत्रैव वे० क० त० ) ।
 
-
 
पूषा - सूर्यः । तथा एकर्षिः= रविः । यथा - जगतः पोषणात् पूषा रविस्तथैक
एव ऋषति गच्छतीत्येकर्षि: (ई० उ० १६ शा० भा० ) ।
 
-
 
प्रकरणम् – ग्रन्थविशेषस्य संज्ञा । यथा - शास्त्रैकदेशसम्बद्धं शास्त्रकार्यान्तरे
स्थितम् । प्राहुः प्रकरणं नाम ग्रन्थभेदं विपश्चित: (सं० शा० १० सु० टी०) ।
१. ज्ञानम् । यथा - अर्थप्रकाशो बुद्धिः इत्यादौ । प्रागप्रकाश-
रूपस्यात्मनो मनःसंयोगाज्ज्ञानाख्यः प्रकाशो जायते । इति न्यायवैशेषिकाः ।
२. ज्ञानस्वरूप आत्माप्रकाश इति सांख्ययोगविदः । ३. तेजः । यथा प्रचुरप्रकाशो
रविः इत्यादौ । तमो विरोध्याकारो हि प्रकाशः ।
 
प्रकाश:-
-
 
प्रकाशमानम् - प्रत्यक्षविषयत्वम् ।
 
-
 
प्रकृतिः – अविद्या । यथा- एवमविद्यालक्षणां स्वां प्रकृतिमवष्टभ्य आश्रित्य
तां विना केवलस्य स्रष्टृत्वासम्भवात् । इमं भूतग्रामं पुनः पुनर्विधं सृजामि । किं भूतम् ।
प्रकृतेर्वशात् स्वभावात् (गी० ९।८ नी० क०) । यथा च - प्रकृतिं मायाख्यामनिर्वचनीयां
स्वां स्वस्मिन् कल्पितामवष्टभ्य स्वसत्तास्फूर्तिभ्यां दृढ़ीकृत्य तस्याः प्रकृतेर्मायाया वशाद्
अविद्याऽस्मितारागद्वेषाभिनिवेशकारणावरणविक्षेपात्मकशक्तिप्रभावाज्जायमानमिमं
सर्वप्रमाणसंसाधितं भूतग्राममाकाशादिभूतसमुदायमहं मायावीव पुनः पुनर्विसृजामि
विविधं सृजामि (तत्रैव म० सू०) । यथा च - प्रकृतिं स्वां मम वैष्णावीं मायां
त्रिगुणात्मिकां यस्यावशे सर्वं जगत् वर्तते । मया मोहितं सत् स्वमात्मानं वसुदेवं न
जानाति (गी० ४।६ शा० भा०) । यथा च - प्रकृतिं स्वामधिष्ठाय सम्भवाम्यात्ममामयेति ।
 
-