2023-03-12 05:01:16 by ambuda-bot
This page has not been fully proofread.
शाङ्करवेदान्तकोशः
२६९
२ शा० भा०) । (ख) समस्तजगत्पूरयिता । यथा - पुरुषाकारत्वात् पूर्ण वाऽनेन
प्राणबुद्ध्यात्मना जगत् समस्तमिति पुरुषः पुरिशयनात् वा पुरुषः सोऽहमस्मि भवामि
( ई० उ० १६ शा० भा० ) ।
-
पुराणः - आत्मा । यथा - पुरा वियदादिसृष्टेः प्रागपि नव एव । एतेन
अपक्षयादिधर्मराहित्यान्मुख्यमजत्वादिकमात्मन एव, वियदादेस्त्वमुख्यं तदिति
दर्शितम् । .... शाश्वतः पुराण इत्येताभ्यामुपचयापचयौ निषिध्येते इति न हन्यते न
विपरिणमत इति च व्याख्यातम् (गी० २।२० नी० क० ) । यथा च - आत्मा,
शाश्वतनवः अयं तु शाश्वतोऽत एव पुराणः पुरापि नव एवेति । यो हि
अवयवोपचयद्वारेणाभिनिर्वर्त्यते स इदानीं नवो यथा कुम्भादिः तद्विपरीतस्त्वात्मा
पुराणो वृद्धिविवर्जित इत्यर्थ: (का० उ०२।१८ शा० भा० ) ।
पुरितत् - हृदयपरिवेष्ठनम् एकस्या विशेषनाड्या नाम वा । यथा - तथा
पुरीततोऽपि ब्रह्मप्रक्रियायां सङ्कीर्तनात्तदनुगुणमेव सुप्तिस्थानं विज्ञायते - य एषोऽन्तर्हदय
आकाशस्तस्मिञ्छेते (छा० २।१।१७) इति हृदयाकाशे सुप्तिस्थाने प्रकृत इदमुच्यते
पुरीतति शेते ( बृ० आ० उ० २।१।१९) इति पुरीतदिति हृदयपरिवेष्टनमुच्यते ।
तदन्तर्वर्ति न्यपि हृदयाकाशे शयानः शक्यते पुरीतति शेत इति वक्तुम् । प्राकारपरिरक्षितेऽपि
पुरे वर्तमानः प्राकारे वर्तत इत्युच्यते । हृदयाकाशस्य च ब्रह्मत्वं समधिगतम्- दहर
उत्तरेभ्यः (ब्र० सू० १ । ३ । १४) इत्यत्र (ब्र० सू० ३ । २।७ शा० भा० ) ।
-
-
-
पुरुषः – १ . जीवात्मा । यथा - पुरुषः पुरि शयनात् पूरयति वा स्वेनाऽऽत्मना
जगदिति (छा० उ० १।६।६ शा० भा० ) । यथा च - पुरुषो विनाशहेत्वभावादविनाशी,
विक्रियाहेत्वभावाच्च कूटस्थनित्यः अत एव नित्यशुद्धबुद्धमुक्तस्वभावः (ब्र० सू० १ ।
१ । ४ शा० भा० ) । यथा च त्रिविधोऽपि धर्मलक्षणावस्थापरिणामलक्षणो विकारो
नास्तीत्युक्तम् । अपि चात्मनः परमार्थसतो धर्मोऽपि परमार्थसन्निति न तस्यात्म-
विकारः
वदन्यथात्वं कारणैः शक्यं कर्तुं न च धर्मान्यथात्वादन्यो
(तत्रैव भाम०) यथा च - अनन्तोऽनवधिः । विकारो नास्तीत्युक्तं भेदाभेदविचारे
(वे० क० त० ) ।
-
पुरुषकर्मोद्भूतानि – धर्माधर्मफलानि । यथा च - पुरुषकर्म धर्माधर्माख्यं तत्
उद्भूतिर्येषां तानि पुरुषकर्मोभूतिकानि (सं० शा० ३।२५० अ० टी०) ।