This page has not been fully proofread.

शाङ्करवेदान्तकोशः
 
२६७
 
-
 
वाक्ये ब्रह्मशब्दसंयोगाभावादिति । ....उच्यते - आनन्दमयोऽभ्यासात् । आनन्दमय
आत्मेत्यत्र ब्रह्मपुच्छं प्रतिष्ठा ब्रह्मण इति स्वप्रधानमेव ब्रह्मोपदिश्यते, अभ्यासात् । ....
प्राचुर्यादप्यवयवशब्दोपत्तेः । प्राचुर्य प्रायापत्तिः, अवयवप्राये वचनमित्यर्थः ।
अन्नमयादीनां हि शिर आदिषु पुच्छान्तेष्ववयवेषूक्तेष्वानन्दमयस्यापि शिरआदीन्य-
वयवान्तराण्युक्त्वावयवप्रायापत्त्या ब्रह्मपुच्छं प्रतिष्ठा इत्याह; नावयवविवक्षया
(ब्र० सू० १ ।१ ।१९ शा० भा०) । यथा च - पुच्छवत् पुच्छमिति । ननु - प्रतिष्ठापदेनै-
वाधारत्वलाभात्पुच्छपदेन नाधारत्वलक्षणा सम्भवति । कान्तिमन्मुखं चन्द्र इत्यत्र
स्वशब्देनैव कान्तिमत्वे लब्धेऽपि चन्द्रकान्तितुल्यकान्तिसंग्रहार्थं चन्द्रपदमपि
गौणमिति युक्तम्, नैवमत्र; ब्रह्म प्रतिष्ठात्वसंकोचकमानान्तराभावेन प्रत्युत
तस्य निरपेक्षप्रतिष्ठात्वप्रमापकश्रुतिसत्वेन प्रतिष्ठापदेनैवेष्टसिद्धेः, एवं चानन्दमया
वयवत्वेन ब्रह्मनिर्देश इत्यत उक्तम्- प्राचुर्यादिति । एवं च यथा पक्षिणां
पुच्छमाधारः एवमानन्दमयस्य ब्रह्म आधार इति दृष्टान्तमुखेन श्रोतृबुद्ध्यवतरणार्थं
पुच्छवद्भावविशेषिततयाऽधारत्वसामान्यलक्षणार्थं च पुच्छपदप्रयोगः सार्थक इति
न दोषः ।" (तत्रैव टिप्पणी)
 

 
-
 
-
 
पुण्यम् - १. शास्त्रविहितकर्मजन्यः कोऽप्यपूर्वः । यथा - तस्मात् पुण्यो वै
शास्त्रविहितेन पुण्येन कर्मणा भवति । तद्विपरीतेन विपरीतो भवति । पापः पापेन
(बृ० आ० उ० २/२/१३ शा० भा० ) । २. धर्मविशेषः । यथा - तस्मादात्मकृतं
पुण्यं वृथा न परिकीर्तयेदिति (देवल:) क्षीणे पुण्ये मर्त्यलोके विशन्ति (श्रुतिः)
तद्यथेह कर्मचितो लोकः क्षीयते एवममुत्र पुण्यचितो लोकः क्षीयते (श्रुतिः) ।
३. लग्नावधिकं सप्तमस्थानमिति ज्योतिर्विदः । ४. सत्कर्म पुद्गलाः पुण्यम् ( स०
द० सं० आर्हते) ।
 
-
 
पुदगल: - १. अणुः । यथा- "यत्तु पुद्गलसंज्ञकेभ्योऽणुभ्यः संघाताः
सम्भवन्तीति कल्पयन्ति, तत्पूर्वेणैवाणुवादनिराकरणेन निराकृतं भवतीत्यतो न पृथक्
तन्निराकरणाय प्रयत्यते" (ब्र० सू० २ । २ । ३४ शा०भा० ) ।
 
पुरम् - १. शरीरम्, पुरसादृश्यात् । यथा- पुरमिव पुरम् । द्वारपालाधिष्ठा-
त्राद्यनेकपुरोपकरणसम्पत्तिदर्शनाच्छरीरं पुरम्" (का० उ० ५1१ शा० भा०) ।
२. शरीरमेव पुरम् - सादृश्यात् । यथा - "नवद्वारे पुरे सप्तशीर्षाण्यान्यात्मन