This page has been fully proofread once and needs a second look.

शाङ्कुरवेदान्तकोशः
 
पाण्डित्यम् - , पाण्डित्य
पण्डा अध्ययनजा ब्रह्मबुद्धिः तद्वान् पण्डितः तस्य ज्ञानमात्रम् ।
 
-
 

यथा च तस्माद् ब्राह्मणः पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेद् बाल्यं च पाण्डित्यं
 
-
 
-
 

च निर्विद्याथ मुनिरमौनं च मौनं च निर्विद्याथ ब्राह्मणः (तत्रैव ३।५।१ ब्र० सू०

३।४।४७ शा० भा०)। यथा च पण्डा अध्ययनजा ब्रह्मधीस्तद्वान् पण्डितः

तस्य कृत्यम् श्रवणम् (तत्रैव वे० क० त० ) । यथा च - ज्ञानमात्रम् पण्डितम्

(तत्रैव भाम०) ।
 
-
 

 
पारमार्थिकम् - , पारमार्थिक
१. प्रमाविषयत्वम् ( न तु व्यावहारिकं प्रातिभासिकं वा) यथा

च - इदं तु पारमार्थिकं कूटस्थनित्यं व्योमवत् सर्वव्यापि सर्वविक्रियारहितं नित्यतृप्तं

निरवयवं, स्वयं ज्योतिः स्वभावम्" (ब्र० सू० १ १ ४ शा० भा०) । यथा च -

तथा च श्रुतिः - मृत्तिकेत्येव सत्यमिति । तस्मात् कूटस्थनित्यतैव पारमार्थिकी न

परिणामिनित्यतेति सिद्धम् (तत्रैव भाम० ) ।२. कालत्रयसम्बन्धित्वम् । ३. त्रिकाला-

बाधितत्वम् । यथा - ब्रह्मणस्तत्सत्तायाश्च पारमार्थिकत्वम्, घटपटादीनां व्यावहारि-

कत्वम्, शुक्तिरजतादीनां प्रातिभासिकत्वमलीकत्वं वा । खपुष्पशशशृङ्गकूर्मरोम-

वन्ध्यापुत्रादीनां तुच्छत्वम् ।
 

 
पाशः - , पाश
पाशश्चतुर्विधः मलकर्ममायारोधशक्तिभेदात् । पत्युरसामञ्जस्यात्

(ब्र० सू० २।२।३७) इति सूत्रे शा० मा० भाम० द्रष्टव्ये ।
 
-
 

 
पितृयाणम् - , पितृयाण
दक्षिणायनमितिशब्दोऽथवा धूममार्ग इति शब्दो द्रष्टव्यः ।

पितृयानम्- पितृयाणशब्दवत् । दक्षिणायनमिति शब्दोऽथवा धूममार्गः इति

शब्दो द्रष्टव्यः ।
 

 
पिप्पलम् - , पिप्पल
कर्मफलम् । यथा- पिप्पलं कर्मफलम् (ब्र० सू० १/१/४ वे० क०

त०) । यथा च - पिप्पलं कर्मफलं संसरस्याश्वत्थत्वेन रूपितत्वात् (तत्रैव १ । २ । १२

वे० क० त० ) ।
 
-
 

 
पिबन्तौ - , पिबन्
कर्मफलभोगयिता ईश्वरः । किन्त्वत्र उपचाराद् भोक्तृत्वेनोक्तः ।

यथा - जीवस्तावत् पिबति, ईश्वरस्तु पाययति । पाययन्नपि पिबतीत्युच्यते, पाययितर्यपि

पातृत्वप्रसिद्धिदर्शनात् (ब्र० सू० १/२/११ शा० भा० ) ।
 
--
 
-
 
-
 

 
पुच्छम् - , पुच्छ
आधारः उपचारात् । यथा - अत्रोच्यते तथा सति तदेव ब्रह्मानन्दमय

आत्मावयवी, तदेव च ब्रह्मपुच्छं प्रतिष्ठावयव इत्यसामञ्जस्यं स्यात् । अन्यतरपरिग्रहे

तु युक्तं "ब्रह्मपुच्छं प्रतिष्ठा" इत्यत्रैव ब्रह्मनिर्देश आश्रयितुं ब्रह्मशब्दसंयोगात् नानन्दमय-