2023-03-12 05:01:15 by ambuda-bot
This page has not been fully proofread.
शाङ्कुरवेदान्तकोशः
२६५
-
शल्लकी गोधा खड्गी कूर्मोऽथ पञ्चमः (बा० रा०) । यथा च - द्वयोः समुच्चितस्य
प्राप्तावितरनिवृत्तिफलको विधिः परिसंख्याविधिः । यथा चयनप्रकरणे - इमामगृभ्णन्
रशनामृतस्येत्यश्वाभिधानीमादत्त इति अश्वरशनाग्रहणाङ्गत्वेन मन्त्रविधिः । ....एतद्-
विध्यभावे ..... अश्वरशनादान इव गर्दभरशनाऽऽदानेऽपि प्राप्नुयात् । ....द्वयोः
समुच्चित्य प्राप्तावितरनिवृत्तिफलकत्वादयं परिसंख्याविधिः । एवं पञ्च पञ्चनखाः
भक्ष्याः इत्यादावपि बोध्यम् (मी०प० वि० नि०) ।
.....
परोवरीयः - उद्गीथः, परमात्मा सम्पन्नः यथा - यस्मात्परं परं वरीयो
वरीयसोऽप्येष वरः परश्च वरीयांश्च परोवरीयानुद्गीथः परमात्मा सम्पन्न इत्यर्थः ।
अत एव स एषोऽनन्तोऽविद्यमानान्तस्तमेतं परोवरीयांसं परमात्मभूतमनन्तमेवं
विद्वान् परोवरीयांसमुद्गीथमुपास्ते । तस्यैतत्फलमाह । परोवरीयः परं परं वरीयो
विशिष्टतरं जीवनं हास्य विदुषो भवति दृष्टं फलमदृष्टं च परोवरीयस उत्तरोत्तर
विशिष्टतरानेव ब्रह्माकाशान्तांल्लोकाञ्जयति य एतदेवं विद्वानुद्गीथमुपास्ते
(छा० उ० १/९/२ शा० भा० ) ।
-
पवित्रम् - परमात्मा, यो हि ज्ञानमात्रेण अविद्याकामकर्मभ्यो मोचकः । यथा-
"परमं पवित्रं पावनं च भवानेव" (गी० १०/१२ म० सू० ) । यथा च-
पवित्रं पावनं परमं प्रकृष्टं ज्ञानमात्रेण सवासनाऽविद्याकामकर्मभ्यो मोचकत्वात्"
(तत्रैव भाष्यो०) ।
पशुः – १ . (क) बन्धनयुक्त आत्मा पाशुपतदर्शने । यथा - पशव आत्मान-
स्तेषां पाशो बन्धनं तद्विमोक्षो दुःखान्तः" (ब्र० सू० २ । २ । ३७ भाम०) ।
(ख) पशुत्वसम्बन्धी पशुः । सोऽपि द्विविधः साञ्जनो निरञ्जनश्चेति । तत्र साञ्जनः
शरीरेन्द्रियसम्बन्धी, निरञ्जनस्तु तद्रहितः । (ग) अननुक्षेत्रज्ञादिपदवेदनीयो जीवात्मा
पशुः ( स० द० शैव०) । २. चतुष्पाद् जीवः । यथा पशुना रूद्रं यजते इत्यादि
पूर्वमीमांसायां लोके च ।
-
…...
पाङ्क्तम् – दाराग्निसम्बद्धं हि पाङ्क्तं कर्म (वृ० आ० ३०६।२।९ शा०भा०) ।
पाङ्क्तः – यज्ञेन सम्बद्धैः पशुपुरुषादिभिः सम्पन्नो यज्ञः पाङ्क्तः उच्यते ।
यथा हि एष पाङ्क्तः पञ्चभिर्निवृत्तः पाको यज्ञो दर्शनमात्रनिर्वृत्तोऽकर्मणोऽपि
च पशुः पुरुषश्च पाङ्क एव ....पाङ्कमिदं सर्वं कर्मसाधनं फलम् .....एवं पानं
यज्ञमात्मानं यः सम्पादयति (बृ० आ० उप० १ ।४।१७ शा० भा० ) । यथा च -
"जायापुत्रवित्तादिलक्षणं पाङ्क्तं कर्म अविद्याविषयम् (तत्रैव ४।१।१ शा० भा०) ।
यथा च - दाराग्निसम्बद्धं हि पाङ्क्तं कर्म (तत्रैव ६।२।९ शा० भा०) ।