This page has not been fully proofread.

२६४
 
शाङ्करवेदान्तकोशः
 
परिणामिनित्यता हि न पारमार्थिकी तथा हि तत्सर्वात्मना
 
परिणामिनित्यतां च ।
वा परिणमेदेकदेशेन वा (तत्रैव भाम० ) ।
 
.....
 
-
 
परिदेवना - प्रलापः। यथा - तथा चोक्तम्- अदर्शनादापतितः पुनश्चादर्शनं
गतः । नासौ तव न तस्य त्वं वृथा का परिदेवना इति । तत्र का परिदेवना को वा
प्रलापोऽदृष्टदृष्टप्रनष्टभ्रान्तिभूतेषु भूतेष्वित्यर्थः (गी० २।२८ शा० भा० ) । यथा च -
अयमर्थः रज्जूरगकारणमज्ञानं न रज्जुवत् उरगवद् वा व्यक्तमस्ति । परीक्ष्यमाणं न
च दृष्टिपथमवतरति । अतस्तदव्यक्तम् । तत उत्पन्नः सर्पः तत्रैव लीयते न रज्वाम् ।
एवम् आत्मनि कल्पितानां भूतानां आदिरन्तश्चाव्यक्तमेव । तेन आदावन्ते च यन्नास्ति
वर्त्तमानेऽपि तत्तथा इति न्यायेन मध्ये भासमानान्यपि तानि रज्जूरगवत् न सन्त्येव ।
एवंविधे तत्र तस्मिन् विषये का परिदेवना को वा विलापः (तत्रैव नी० क०) ।
 
-
 
परिनिष्ठितम् – प्रमाणितम् । यथा च - "सांख्यादयस्तु परिनिष्ठितं वस्तु
प्रमाणान्तरगम्यमेवेति मन्यमानाः प्रधानादीनि कारणान्तराण्यनुमिमानास्तत्परतयैव
वेदान्तवाक्यानि योजयन्ति" (ब्र० सू० १/१/५ शा० भा० ) ।
 
-
 
-
 
परिभाषा - १. आधुनिकसङ्केतः । यथा - शाब्दिकमते वृद्धिपदस्याकारैकारौकारेषु
पाणिनिसंङ्केतः । २. (क) अनियमे नियमकारिणी परिभाषा । (ख) परितो व्यापृतां
भाषां परिभाषां प्रचक्षते । यथा - "यथोद्देशं संज्ञापरिभाषम्" इत्यादौ ।
 
परिभूः – सर्वोपरि भवनम् । यथा - परिभूः सर्वेषामुपर्युपरि भवतीति परिभूः
(ई० उ० मं० ८ शा० भा० ) ।
 
-
 
-
 
परिमण्डलम् – परमाणुगुणविशेषः । यथा - एषा तेषां प्रक्रिया - परमाणवः किल
कञ्चित्कालमनारब्धकार्या यथायोगं रूपादिमन्तः पारिमाण्डल्यपरिमाणाश्च तिष्ठन्ति ।
....परमाणुगुणविशेषस्तु पारिमाण्डल्यं न तु द्व्यणुके पारिमाण्डल्यमपरमारभते,
द्व्यणुकस्य परिमाणानन्तरयोगाभ्युपगमात् (ब्र० सू०२/२/११ शा० भा० ) ।
 
-
 
परिसंख्या - १ . विवेकः । यथा - तस्मात् तत्काले स्वातन्त्र्यार्थं योगधर्मानुसेवनं
परिसंख्यानाभ्यासश्च श्रद्दधानैः परलोकार्थिभिरप्रमत्तैः कर्त्तव्य इति (बृ० आ० उ०
४।४।२ शा० भा०) । २. सर्वत्र प्राप्तस्य क्वचिद् विधिः । यथा - "विधिरत्यन्त-
मप्राप्तौ नियमः पाक्षिके सति । तत्र चान्यत्र चप्राप्तौ परिसंख्येति कीर्त्यते ।" अग्निहोत्रं
जुहूयादित्यत्र अपूर्वविधिः । ब्रीहीन् अवहन्ति इत्यत्र नियमविधिः । पञ्च पञ्चनखा
भक्ष्याः इत्यत्र परिसंख्याविधिः । पञ्च पञ्चनखा भक्ष्या ब्रह्मक्षत्रेण राघव । शशकः