This page has been fully proofread once and needs a second look.

शाङ्करवेदान्तकोशः
 
२६३
 
-
 
परिच्छिन्नत्वम्, परिच्छिन्नत्व
केनाप्युपाधिना परिमितत्वम् । यथा - परिच्छिन्नत्वमपि हेतुः ।

तच्च देशतः कालतो वस्तुतश्चेति त्रिविधम् । तत्र देशतः परिच्छिन्नत्वमत्यन्ताभाव-

प्रतियोगित्वम् । कालतः परिच्छिन्नत्वं ध्वंसप्रतियोगित्वम् । वस्तुतः परिच्छिन्नत्वम-

न्योन्याभावप्रतियोगित्वम् ( अ० सि० मि०नि०) । यथा च देशत इत्यादि क्वचिद्देश

एव विद्यमानत्वं देशतः एव परिच्छेदः । क्वचित्काल एव विद्यमानत्वं कालपरिच्छेदः ।

केनचिदेव वस्तुना तादाम्यापन्नत्वं वस्तुपरिच्छेदः (तत्रैव गौ० ब्र०) ।
 
-
 
-
 

 
परिणामः- , परिणामः
१. कस्यापि वस्तुनो रूपान्तरेण परिणतिः परिणामः स च त्रिविधः ।

यथा - "परिणामोऽपि त्रिविधो धर्मलक्षणावस्थालक्षण: उत्पत्तिरेव । धर्मिणो हि

हाटकादेर्धर्मलक्षणः परिणाम: कटकमुकुटादिस्तस्योत्पत्तिः । एवं कटकादेरपि

प्रत्युत्पन्नत्वादिलक्षणपरिणाम उत्पत्तिः । एवमवस्थापरिणामो नवपुराणत्वाद्युत्पत्तिः (ब्र०

सू० १ । १ । २ भाम०) । यथा च - धर्म इति लक्षणमिति अवस्थेति त्रीणि लक्षणानि

यस्य परिणामस्य स तथोक्तः । धर्मिणो हीति । कटकादेधर्मिणो धर्मरूपपरिणामो नाम

मुकुटकटकादिरिति सांख्यप्रक्रिया...... । प्रत्युत्पन्नत्यं वर्तमानत्वं कटकादिकार्यस्य

वर्तमानत्वातीतस्य भविष्यत्त्वरूपो लक्षणपरिणामः सोऽप्युत्पत्तिरित्यर्थः । ..... ।

अतीतादेरेवातीतत्वातीततरत्वातीततमत्वादिरूपो नवपुराणत्वाद्यापत्तिरवस्थापरिणामो

नाम, स चोत्पत्तिरेवेत्यर्थ: (तत्रैव वे० क० त०) । यथा च - "तत्त्वतोऽन्यथाभावः

परिणामः .....धर्मिसमसत्ताकोऽन्यथाभावः परिणामः (ब्र० सू० १/२/२१ वे०

क० त० प०) । यथा च अवस्थान्तरतापत्तिरेकस्य परिणामिता । स्यात् क्षीरं दधि

मृत्कुम्भः सुवर्णं कुण्डलं यथा (प० द० १३ ।८) । यथा च परिणामो नाम उपादान-

समसत्ताककार्यापत्तिः । विवर्तो नाम उपादानविषमसत्ताककार्यापत्तिः । प्रातिभासिक-

रजतं चाविद्यापेक्षया परिणामः चैतन्यापेक्षया विवर्त इति चोच्यते (वे० प० १ परि०) ।

२. जीर्णता (पाकः) यथा - "भुक्तस्य परिणामहेतुरौदर्यं तेजः (त० सं०) इत्यादौ ।

३. सांख्या: पातञ्जलाश्च परिणामो नाम अवस्थितस्य द्रव्यस्य पूर्वधर्मनिवृत्तौ

धर्मान्तरोत्पत्तिरिति । परिणामस्त्रिविधः धर्मलक्षणावस्थाभेदात् (पा० यो० सू० पा०

३ द्रष्टव्यः) ।४. शेषः = (अन्त्यावस्था) यथा - परिणामेऽमृतोपमम् (गी० १८।३७)।

५. अर्थालङ्कारविशेषः । काव्यप्रकाशादिग्रन्थेषु ।
 
-
 
-
 
-
 

 
परिणामिनित्यम् = , परिणामिनित्य
सर्वात्मना एकदेशेन वा यत् परिणमेत् यन्न पारमार्थिकम् ।

यथा - तत्र किञ्चत्परिणामि नित्यं यस्मिन् विक्रयमाणेऽपि तदेवेदमिति बुद्धिर्न विहन्यते

(ब्र० सू० १ १ ४ शा० भा०) । यथा च - परं हि द्वयीं नित्यतामाहुः कूटस्थनित्यतां
 
-