2023-03-12 05:01:15 by ambuda-bot
This page has not been fully proofread.
शावेदान्तकोशः
परावाक् – शब्दब्रह्म । यथा च श्रीनागेशप्रणीतलघुमञ्जूषायां वाचश्चत्वारो भेदाः
परा पश्यन्ती मध्यमा वैखरी च वर्णिताः । परावाक् मूलचक्रस्था पश्यन्ती नाभिदेशगा।
हृदिस्था मध्यमा ज्ञेया वैखरी कण्ठगा स्मृता । श्रीभर्तृहरिमते त्रयो भेदाः- वैखर्या
मध्यमायाश्च पश्यन्त्याश्चैतदद्भुतम् । अनेकतीर्थभेदायास्त्रय्या वाचः परं पदम् (वा०
प० १।१४४) । अत्र हेलाराजः- पश्यन्तीमेव परां वाचं मनुते । यथा संविच्च
पश्यन्तीरूपा परावाक् शब्दब्रह्ममयीति ब्रह्मतत्त्वं शब्दात् पारमार्थिकान् न भिद्यते ।
विवर्तदशायां तु वैखर्यात्मना भेदः (वा० प० ३ द्र० स० ११ हे०) ।
२६२
-
-
--
-
पराविद्या – १ . विद्याया भेदद्वयम्- पराविद्या अपराविद्या च । यया परमात्मधी-
रुदेति सा परा विद्या । यथा च - "अथ परा यया तदक्षरमधिगम्यते" इत्यादि । तत्र
परस्या विद्याया विषयत्वेनाक्षरं श्रुतम् (ब्र० सू० १ ।२।२१ शा० भा०) । यथा च -
प्रथमं सकलवेदशिरःसु परापरबोधतः परापरविषयमिदं वाक्यमिदमपरविद्या-
विषयमिति विवेके कृते सति परमात्मधीपरवचःसु परविद्याविषयवाक्येष्वपुनरुक्त-
पदानि भिन्नशाखागतान्यप्युपसंहरन्वाक्यपरिमितं स्वयमेव वेत्स्यसि वक्ष्यपरिमाणं त्वमेव
ज्ञास्यसीति । यवा सकलवेदशिरसूत्सर्गतः परमात्मधीपरवचःसु परापरभेदतो-
ऽवान्तरतात्पर्येणापरविद्याविषयतया भेदे सति परविद्यायामपरविद्यायां च यथायोग-
मपुनरुक्तपदान्युपसंहन्नुभयत्र वाक्यपरिमितं स्वयमेव ज्ञास्यसीति योजना (सं० शा०
३।३१३ आ० टी०) । २. परा प्रकृष्टा गतिः मोक्ष इति । यथा च परां प्रकृष्टां
गतिं मोक्षाख्यम् (गी० १३ । २८ शा० भा०) । यथा च - ततः परां गतिं मोक्षं याति
(तत्रैव नी० क०) । अतः स्वरूपलाभान्न हिनस्त्यात्मनात्मानं ततो याति परां गतिम् ।
तत आत्महननाभावादविद्यातत्कार्यनिवृत्तिलक्षणां मुक्तिमधिगच्छतीत्यर्थः (तत्रैव म०
सू०) । यथा च तस्मात् परां प्रकृष्टां मोक्षाख्यां गतिं याति प्राप्नोति (तत्रैव
भाष्यो०) । यथा च ततश्च परां गतिं मोक्षमाप्नोति (तत्रैव श्रीधरी) । यथा च -
परां प्रकृष्टां गतिं स्वर्गं मोक्षं वा (गी० १६।२३ शा० भा० ) । यथा च - परां गतिं
मोक्षं च नावाप्नोति (तत्रैव नी० क०) । यथा च - "नापि परां प्रकृष्टां गतिं स्वर्गं
मोक्षं वा" (तत्रैव म० सू०) । यथा च - नापि परां प्रकृष्टां गतिं स्वर्गं मोक्षं चाप्नोति
(तत्रैव भाष्यो०)। यथा च - न च परां गतिं मुक्तिं प्राप्नोति (तत्रैव श्रीधरी)।
-
-
-
परासिद्धिः - उत्तमा सिद्धिः, मुक्तिः । यथा- "परां सिद्धिं मोक्षाख्याम्"
(गी० १४।१ शा० भा०) । यथा च परां सिद्धिं मोक्षम् (तत्रैव नी० क०) । यथा
च- परां सिद्धिं मोक्षाख्याम् (तत्रैव म० सू०) ।
1