2023-03-12 05:01:14 by ambuda-bot
This page has not been fully proofread.
शाङ्करवेदान्तकोशः
परमेश्वरः - कर्तृभोक्त्राद्युपाधिरहित आत्मा । यथा च "परमेश्वरस्त्वविद्या-
कल्पिताच्छारीरात्कर्तुर्भोक्तुर्विज्ञानात्माख्यादन्यः । यथा मायाविनश्चर्मखड्गधरात्सूत्रेणा-
काशमधिरोहतः स एव मायावी परमार्थरूपो भूमिष्ठोऽन्यः । यथा वा घटाकाशा-
दुपाधिपरिच्छिन्नादनुपाधिरपरिच्छिन्न आकाशोऽन्यः (ब्र० सू० १/१/१७ शा० भा०) ।
यथा च - मायावच्छिन्नं चैतन्यं परमेश्वरः मायाया विशेषणत्वे ईश्वरत्वमुपाधित्वे
साक्षित्वमिति ईश्वरत्वसाक्षित्वयोर्भेदः, न तु धर्मिणोरीश्वरतत्साक्षिणोः । स च परमेश्वर
एकोऽपि स्वोपाधिभूतमायानिष्ठसत्त्वरजस्तमोगुणभेदेन ब्रह्मविष्णुमहेश्वर इत्यादिशब्द-
वाच्यतां लभते (वे० प० ) । यथा च द्विरूपे परमेश्वरे निर्गुणरूपमनवाप्य सगुण
एवावतिष्ठन्ते एवं सगुणेऽपि निरवग्रहमैश्वर्यमनवाप्य सावग्रह एवावतिष्ठन्त इति
(ब्र० स० ४/४/१९ शा० भा० ) ।
-
२६१
-
परलोकपथ्यदनम् - परलोकयात्रायां समुपकारकसामग्रीस्थानीयं विद्या कर्म
पूर्वप्रज्ञा एतत्त्रयम् । यथा च - तस्मादेतत्त्रयं शाकटिकसम्भारस्थानीयं परलोकपथ्यदनं
विद्याकर्मपूर्वप्रज्ञाख्यम् । यस्माद् विद्याकर्मणी प्रज्ञा च देहान्तरप्रतिपत्त्युपभोगसाधनम्
(बृ० आ० उप० ४।४।२ शा०भा० ) ।
-
परागू – दृश्यप्रपञ्चः। यथा - परागिति चैतन्यभास्यं दृश्यमुच्यते । यद्वा,
असत्य आरोपितः परागर्थः प्रभिद्यते विदीर्यते विनश्यत्यस्मिन्नित्यसत्यपराक् प्रभेद-
स्तमिति विग्रहः (सं० शा० अ० का० टी० मं० ३) ।
-
-
परात्मा - सच्चिदानन्दः । यथा - परात्मा सच्चिदानन्दस्तादाम्यं नामरूपयोः ।
गत्वा भोग्यत्वमापन्नस्तद्विवेके तु नोभयम् (प० द० १४ ।७) ।
-
परार्धम् - हृदयाकाशः । यथा - "परस्य ब्रह्मणोऽर्धं स्थानं परार्धम् । तस्मिन्
हि परं ब्रह्मोपलभ्यते । तस्मिन् परमे परार्द्धे हार्दाकाशे प्रविष्टावित्यर्थः (का० उ० ३।१
शा० भा० ) ।
-
--
-
-
परायणम् - परम् अयनं = परमात्मा । यथा - "तथा परायणत्वमपि परमकारणत्वात्
परमात्मन्येवोपपन्नतरम्। श्रुतिश्च भवति" विज्ञानमानन्दं ब्रह्मरातेतुः परायणम्
(बृ० ३।९।२८) इति (ब्र० सू० १।१।२२ शा० भा०) । यथा च - परायणमिति
च तस्यैवोपसंहाराद् ब्रह्मैव प्रधानम् । तथा च तदर्थं सत् आकाशपदं प्रधानार्थं भवति
नान्यथा । तस्मात् ब्रह्मैव प्रधानमाकाशपदेनेहोपास्यत्वेनोपक्षिप्तम्, न भूताकाशमिति
सिद्धम् (तत्रैव भाम०) ।