This page has been fully proofread once and needs a second look.

२६०
 
शाङ्करवेदान्तकोशः
 
कल्पितानां परमः प्रकृष्टः
 
उपद्रष्टृत्वादिपूर्वोक्तविशेषणविशिष्ट आत्मा परमात्मा (तत्रैव

म० सू०) । यथा च - परमात्मान्तर्यामी चोक्तश्रुत्या (तत्रैव श्रीधरी) । ब्र० सू० २/४/२

शाङ्करभाष्ये भामत्यां कल्पतरौ परिमले च परमात्मनि इन्द्रियग्रामस्य सूक्ष्मशरीरस्य

जीवस्य च लयः उक्तः ।
 
-
 

 
परमाणुः - , परमाणुः
जालान्तर्गते भानौ सूक्ष्मकणः अवलोक्यते तस्य षष्ठितमः षष्ठतमो

वा भागः अतीव सूक्ष्मतत्त्वं परमाणुः । यथा च - "एषा तेषां परिक्रिया - परमाणवः

किल कंचित्कालमनाब्धकार्या यथायोगं रूपादिमन्तः पारिमाण्डल्यपरिमाणाश्च तिष्ठन्ति ।

ते च पश्चाददृष्टादिपुरःसराः संयोगसचिवाश्च सन्तो द्वयणुकादिक्रमेण कृत्स्नं

कार्यजातमारभन्ते ( ब्र० सू० २/२/११ शा० भा०) यथा च तदेतयैव प्रक्रियया

कारणसमवायिनो गुणाः कार्यद्रव्ये समानजातीयमेव गुणान्तरमारभन्त इति

दूषणमदूषणीक्रियते, व्यभिचारादित्याह- यथा महद् द्रव्यं त्र्यणुकादि ह्रस्वाद् द्व्यणुका-

ज्जायते.... न तु तद्गतं दीर्घत्वमपेक्षते, तदभावात् । वा शब्दश्चार्थेऽनुक्तसमुच्चयार्थः ।

यथा द्व्यणुकमणु ह्रस्वपरिमाणं परिमण्डलात् परमाणोरपरिमण्डलं जायत एवं चेतनाद्

ब्रह्मणोऽचेतनं जगन्निष्पद्यत इति सूत्रयोजना (तत्रैव भाम० ) ।
 
-
 

 
परमार्थः, परमार्थ
परमपुरुषार्थः, अनवच्छिन्नानन्दप्राप्तिः । यथा - तस्मान्मुक्तौ संसार-

दुःखनिवृत्तिरप्यविद्यानिवृत्तिवत् सुखशेष इति अनवच्छिन्नानन्दप्राप्तिरेव स्वतः पुरुषार्थः

(सि० ले० सं० ४ प० ) ।
 
-
 

 
परमार्थता, परमार्थता
१ . परमसत्यम्, ब्रह्मत्वम् । यथा - न निरोधो न चोत्पत्तिर्न बद्धो

न च साधकः । न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थता (प० द० ६।२३५, ८।७१)।

२. सत्स्वरूपता । यथा - उत्पत्तिप्रलययोरभावाद् बद्धादयो न सन्तीति एषा परमार्थता

(मा० उ० गौ० पा० का० २।३२ शा० भा० ) ।
 
-
 

 
परमार्थसत्यम् - , परमार्थसत्यम्
ब्रह्म सत्यं जगत् मिथ्या जीवो ब्रह्मैव नापरः । एकमेवा-

द्वितीयम् । त्रिकालाबाध्यत्वम्, यथा परब्रह्मणः । प्रातिभासिकसत्ता भ्रान्तिकारणापगमे

विनश्यति व्यावहारिकसत्ता च ब्रह्मसाक्षात्कारे सति नश्यति । सदा सर्वदा परमार्थसत्यं

ब्रह्मैव तिष्ठति ।
 
-
 

 
परमृत्युः - , परमृत्यु
मृत्युसमाप्तिकालः । यन्मृत्योरनन्तरं पुनर्मृत्युर्न जायते मोक्षो जायते

स कालः । यथा च - "परेण मृत्युना मृत्यौ भक्षिते परमात्मदर्शनेन योऽसौ मुक्तो

विद्वान् सोऽयं पुरुषो यत्र यस्मिन् काले म्रियते । अत उर्ध्वम्..... (बृ० आ० उप०

३।२।११ शा० भा० ) ।