This page has been fully proofread once and needs a second look.

शाङ्कुरवेदान्तकोशः
 
२५९
 
जीवघनः । स हि समस्तकरणात्मनः सूत्रात्मनो हिरण्यगर्भस्य भगवतो निवास-

भूमितया करणपरिवृतानां जीवानां संघात इति भवति जीवघनः । तदेवं त्रिमात्रौं-

कारायतनं परमेव ब्रह्मोपास्यम् । अत एव चास्य देशविशेषाधिगतिः फलमुपाधिमत्वात्

क्रमेण च सम्यग्दर्शनोत्पत्तौ मुक्ति: 'ब्रह्म वेद ब्रह्मैव भवति' इति तु निरूपाधिब्रह्म-

वेदनाविषया श्रुतिः। अपरं तु ब्रह्मैकैकमात्रायतनमुपास्यमिति मन्तव्यम् ।
 
-
 

 
परमम् - , परम
सर्वप्रमाणपथातीतमपरिनिछन्नं वा ब्रह्म । यथा - तच्च परमं माभ्यः

परं सर्वप्रमाणपथातीतम् । यद्वा परा मा परिमाणं यस्य तत्परममपरिछिन्नमित्यर्थः

(सं० शा० मं० श्लोक सु० टी० ) ।
 

 
परममुक्तिः , परममुक्ति
निःश्रेयसम् । सवासनाज्ञाननिवृत्तिः । एतस्यैवानन्दस्यान्यानि

भूतानि मात्रामुपजीवन्ति (बृ० आ० उ० ४ । ३ । ३२) आनन्दं ब्रह्मणो विद्वान् (तै०

उ० २।४) । निरतिशयानन्दरूपा परमा मुक्तिः ।
 
-
 
परमा -

 
परमा, परमा
ब्रह्मसंस्था निवार्णरूपा पराशान्तिः । यथा - सोऽयं नियतमानसः स

शान्तिमुपरतिं निर्वाणपरंमां मत्संस्थां मदधीनामधिगच्छति प्राप्नोति (गी०

६ । १५ । शा० भा० ) ।
 
-
 
परमात्मा -

 
परमात्मा, परमात्मन्
१. निरूपाधिकः परमपुरुषः प्रत्यक्चेतनः । यथा - परमश्चासौ

देहाद्यविद्याकृतात्मभ्य आत्मा च सर्वभूतानां प्रत्यक्चेतनः परमात्मेत्युदाहृत उक्तो

वेदान्तेषु (गी० १५ । १७ शा० भा० ) । यथा एताभ्यां कार्यकारणोपाधिभ्यामन्यो

निरुपाधिरुत्तमः पुरुषः योऽसौ परमात्मेत्युदाहृतः शास्त्रे (तत्रैव नी० क०) । यथा

च परमात्मेत्युदाहृतः अन्नमयप्राणमयमनोमयविज्ञानमयानन्दमयेभ्यः पञ्चभ्योऽविद्या-

कल्पितात्मभ्यः परमप्रकृष्टोऽकल्पितो ब्रह्मपुच्छं प्रतिष्ठा इत्युक्त आत्मा च सर्वभूतानां

प्रत्यक्चेतन इत्यत परमात्मेत्युक्तो वेदान्तेषु (तत्रैव म० सू०) । यथा आभ्यां क्षराक्षराभ्यां

अन्यो विलक्षणः उपाधिद्वयदोषेणासंस्पृष्टो नित्यशुद्धबुद्धमुक्तस्वभावः उत्तमः

उत्कृष्टतमः पुरुषः अविद्यात्मभ्यो देहादिभ्यः परमश्चासौ सर्वभूतानामात्मा च प्रत्यक्-

चेतन इत्यतः परमात्मेत्युदाहृतः वेदान्तेषु प्रतिपादितः (तत्रैव भाष्यो०) । यथा च

परमश्चासौ आत्मेति चोदाहृतः उक्तः श्रुतिभिः (तत्रैव श्रीधरी) यथा च - परमात्मा

देहादीनां बुद्ध्यन्तानां प्रत्यगात्मत्वेन कल्पितानामविद्यया परम उपद्रष्टृत्वादिलक्षण

आत्मेति परमात्मा सोऽन्तः परमात्मेत्यनेन शब्देन चात्युक्तः कथितः श्रुतौ (तत्रैव

१३।२२ शा० भा०) । यथा च परमात्मा देहादिबुद्ध्यन्तानामचेतनानामविद्ययात्मत्वेन
 

 
-