This page has been fully proofread once and needs a second look.

२५८
 
शाङ्करवेदान्तकोशः
 
-
 
परं परमार्थात्मवस्तुस्वरूपं कैवल्यम् (तत्रैव म० सू०) । यथा च - परं परमार्थातत्त्वं

ब्रह्म । (तत्रैव भाष्यो०) यथा च - परमात्मनो जीवरूपः खिल्यभाव उपाधिकृतः परश्च

विषयेन्द्रियेभ्यः सोऽत्र जीवघन इति (ब्र० सू० १३ ।१३ शा० भा० ) । सम्भवति

च परपुरुषविषयत्वेनार्थप्रत्यभिज्ञानात् सममिहाराच्चैकवाक्यता । तदनुरोधेन च

परात्पर इत्यत्र परादिति जीवघनविषयं द्रष्टव्यम् (तत्रैव भाम० ) । यथा च-

यत्राविद्याकृतनामरूपादिविशेषप्रतिषेधादस्थूलादिशब्दैर्ब्रह्मोपपिश्यते तत्परम् (ब्रह्म)

(ब्र० सू० ४।३।१४ शा० भा० ) ।
 

 
परतन्त्राभिसंवृत्तिः
 
परशास्त्रसिद्धान्तस्य अस्वीकृतिः । यथा- यश्च
, परतन्त्राभिसंवृत्ति
परशास्त्रसिद्धान्तस्य अस्वीकृतिः । यथा- यश्च
परतन्त्राभिसंवृत्
त्या परशास्त्रव्यवहारेण स्यात् पदार्थः सः परमार्थतो निरूप्यमाणो नास्त्येव

(मा० उ० गौ० पा० का०४।७३ शा० भा०) ।
 
-
 
-
 

 
परदेवता - , परदेवता
प्रत्यगात्मदेवता परमात्मा च । यथा- परदेवता सदाख्या 'सदेव-

सोम्येदमग्रमासीत्' छा० ६।२।१ इत्यत्रोक्ता सा परदेवताऽन्तर्गुणान्तः स्वरूपगुणेति

स्वरूपमेवात्र विवक्ष्यते धर्मः । अन्तर्गुणेत्यस्य व्याख्या प्रत्यग्गुणेति प्रत्यगात्मरूपेत्यर्थः ।

भगवतीति तद्विशेषणं तस्या ईक्षणादौ स्वव्यवहारे स्वातन्त्र्यद्योतनार्थम् । भगवान्

सर्वज्ञो भाष्यकारो नन्दिकृतभाष्यकारो द्रविडाचार्योऽन्तर्गुणा भगवती परदेवतेति

यदाह स्म तदिह निर्गुणवस्तुवादे संगच्छते सङ्गतं भवति न तु पुनः सगुणप्रवाद

इति योजना । परदेवतायाः प्रत्यक्तत्वाभिधानमत्यन्ताद्वैतमत एव सङ्गतं भवति

नान्यत्रेत्यर्थः (सं० शा० ३/२/२१ अ० टी०) । यथा च परस्यां देवतायाम्

(छा० उ० ६।८।६ । यथा च - तेजः परस्यां देवतायामित्यत्रापि सप्तम्या तेजसः

परमात्मनि लयप्रतीतेः । परमात्मनि खलु तेजसो लय: प्रसिद्ध: ( ब्र० सू०

४।२।४ क० परि०) ।
 
-
 
-
 

 
परपुरुषः - , परपुरुष
परमात्मा । यथा- एवं परं पुरुषमिति च विशेषणं परमात्मपरिग्रह

एवावकल्पते । परो हि पुरुषः परमात्मैव भवति, यस्मात्परं किंचिदन्यन्नास्ति, पुरुषान्न

किंचित्सा सा काष्ठा सा परा गतिः इति श्रुत्यन्तरात् परं चापरं च ब्रह्म यदोंकारः

इति च भाष्यानन्तरमोंकारेण परं पुरुषमभिध्यातव्यं ब्रुवन्परमेव ब्रह्म परं पुरुषं गमयति

(ब्र० सू० १ ।३।१३ शा० भां०) । अत्र भामती - किन्तु जीवघनात् परात् परो यो

ध्यातव्यो द्रष्टव्यश्च तमेव कल्पयितुं जीवधनो जीवः खिल्यभावमुपाधिवशादापन्नः ।

स उच्यते । स सामभिरुन्नीयते ब्रह्मलोकमित्यनन्तरवाक्यनिर्दिष्टो ब्रह्मलोको वा