This page has not been fully proofread.

शावेदान्तकोशः
 
-
 
-
 
-
 
पतिः - १ . माहेश्वरदर्शने ईश्वरः यथा - माहेश्वरास्तु मन्यन्ते कार्यकारणयोग-
विधिदुःखान्ताः पञ्च पदार्थाः पशुपतिनेश्वरेण पशुपाशविमोक्षणायोपदिष्टाः ।
पशुपतिरीश्वरो निमित्तकारणमिति वर्णयन्ति । तथा वैशेषिकादयोऽपि - केचित्कथंचित्स्व-
प्रकियानुसारेण निमित्तकारणमीश्वर इति वर्णयन्ति । अत उत्तरमुच्यते- पत्युर-
सामञ्जस्यात् इति । पत्युरीश्वरस्य प्रधानपुरुषयोरधिष्ठातृत्वेन जगत्कारणत्वं
पपद्यते (ब्र० सू० २।३७) । २. शिवः । यथा पतिपशुपाशास्त्रयः पदार्था इत्यत्र
(सर्व० द० सं० शै० द०) ।
 
२५७
 
-
 
-
 
-
 
पदम् - १ (क) मोक्षः । यथा - पदमव्ययम् (गी० १५/५ शा० भा०) । यथा
च - तत्पदमव्ययं अपुनरावृत्तिं गच्छन्ति (तत्रैव नी० क० ) । यथा च तदव्ययं
यथोक्तं पदं गच्छन्ति (तत्रैव म० सू० ) । यथा च तथोक्तमावृत्तिरहितं वैष्णवं पदं
मोक्षाख्यं गच्छन्ति मुक्ता भवन्ति (भाष्यो०) । यथा च तदव्ययं पदं वैष्णवं गच्छन्ति
(तत्रैव श्रीधरी) यथा च पदं परमं विष्णोर्मोक्षाख्यम् (गी० २/५१ शा० भा० ) ।
यथा च पदं पदनीयमात्मतत्त्वमानन्दरूपं ब्रह्म ( म० सू० ) । यथा च - सर्वोपद्रवरहितं
मोक्षाख्यं विष्णो परमं पदं गच्छन्ति (भाष्यो०) । (ख) अक्षरब्रह्म । यथा ब्रह्मचर्यं गुरौ
चरन्तीति तत्ते पदं यदक्षाराख्यं पदं पदनीयं तुभ्यं सङ्ग्रहणेन सङ्ग्रहः संक्षेपस्तेन
संक्षेपेण प्रवक्ष्ये कथमिष्यामि (गी० ८।११ शा० भा०) । इति वेदान्तिनः । २. वर्णाः ।
यथा - आनुपूर्वी भेदवन्तो हि वर्णाः पदम् (ब्र० सू० १ ।१।३ भाम०) । ३. गवादि-
खुराङ्कितो देशः । यथा - पदेन गवादिखुराङ्कितो देशः पदमित्युच्यते तेन पदेन
(बृ० उ० १/४/७) । ४. स्थानम् । ५. सुतिङन्तं पदम् इति वैयाकरणाः ।
 
-
 
पथिद्वयम् - प्रवृत्तिलक्षणो धर्मः निवृत्तिलक्षणो धर्मः इति निःश्रेयसे मार्गद्वयम् ।
यथा- "इमौ द्वावेव पन्थानावनुनिष्क्रान्ततरौ भवतः क्रियापथश्चैव पुरस्तात्संन्या-
सश्चोत्तरेण निवृत्तिमार्गेणैषणात्रयस्य त्यागः । तयोः संन्यासपथः एवातिरेचयति न्यास
एवात्यरेचयदिति च तैत्तिरीयके । "द्वाविमावथ पन्थानौ यत्र वेदाः प्रतिष्ठिताः ।
प्रवृत्तिलक्षणो धर्मो निवृत्तश्च विभावितः (ई० उ० शा० भा० ) ।
 
-
 
-
 
-
 
परम् - ब्रह्म । यथा - सो (अन्तर्यामी) निरुपाधिः केवलः शुद्धः स्वभावेनाक्षरं
पर उच्यते (बृ० उ० ३/८/१२ शा० भा०) । यथा च - परं कारणम् (ब्र० सू०
१ ।१।४ क० त०) श्रूयते - क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे (मुण्ड० उ०
२।२।८) । यथा च - परं परमार्थतत्त्वं ब्रह्म (गी० १३ । ३४ शा० भा०) यथा च -