This page has been fully proofread once and needs a second look.

२५६
 
शाङ्कुरवेदान्तकोशः
 
प्रपञ्चूयन्ते । द्विधा प्रवृत्तिः सम्यमिथ्या च । तत्र मिथ्याप्रवृत्तिरास्त्रवः । सम्मक्प्रवृत्ती

तु संवरनिर्जरौ । आस्त्रावयति पुरुषं विषयेष्वितीन्द्रियप्रवृत्तिरास्त्रवः । इन्द्रियद्वारा

हि पौरुषं ज्योतिर्विषयान् स्पृशद्रूपादिज्ञानरूपेण परिणमत इति । अन्ये तु कर्माण्यास्त्र-

वमाहुः । तानि हि कर्तारमभिव्याप्य स्रवन्ति कर्तारमनुगच्छन्तीत्यास्त्रवः । सेयं मिथ्या-

प्रवृत्तिरनर्थहेतुत्वात् । संवरनिर्जरौ च सम्यक्प्रवृत्ती । तत्र शमदमादिरूपा प्रवृत्तिः

संवरः । सा ह्यास्त्रवःस्रोतसो द्वारं संवृणोतीति संवर उच्यते । निर्जरस्त्वनादिकालप्रवृत्ति-

कषायकलुषपुण्यापुण्यप्रहाणहेतुस्तप्तशिलारोहणादिः । स हि निःशेषं पुण्यापुण्यं

सुखदुःखोपभोगेन जरयतीति निर्जरः । बन्धोऽष्टविधं कर्म । तत्र घातिकर्म चतुर्विधम् ।

....तदेतत् कर्माष्टकं पुरुषं बध्नातीति बन्धः । विगलितसमस्तक्लेशतद्वासनस्याना-

वरणज्ञानस्य सुखैकतानस्यात्मन उपरि देशावस्थानं मोक्ष इत्येके । अन्ये तूर्ध्वगमनशीलो

हि जीवो धर्माधर्मास्तिकायेन बद्धस्तद्विमोक्षाद्यदूर्ध्वं गच्छत्येव स मोक्ष इति । त

एते सप्तपदार्था जीवादयः सहावान्तरप्रभेदैरुपन्यस्ताः । अत्र वेदान्तकल्पतरुः - अस्तीति

कायन्ते शब्दयन्त इत्यस्तिकायाः । कै गै शब्दे । अर्हन् नित्यसिद्धः.... ।
 

 
पञ्चीकरणम्, पञ्चीकरण
आकाशवायुतेजोजलभूमीनां पञ्चमहाभूतानां प्रत्येकं आकाशादिषु

एकैकभागस्य सम्मेलनम् यथा पञ्चभूतानि प्रथमं प्रत्येकं द्विधा विभज्यन्ते ततः

एकैकमर्धं चतुर्धा क्रियते । ते च चत्वारो भागा इतरभूतेषु चतुर्षु निक्षिप्यन्ते ।
 
-
 
-
 

तत्राकाशस्य स्वार्धेन भूतान्तरागतपादचतुष्केण च पञ्चीकरणम् (ब्र० सू० १।१।५
 
-
 
.

वे० क० त०) यथा च - आकाशमादौ द्विधा विभज्य तयोरेकं भागं पुनश्चतुर्द्धा विभज्य

तेषां चतुर्णामंशानां वाय्वादिषु चतुर्षु भूतेषु संयोजनम् । एवं वायुं द्विधा विभज्य तयोरेकं

भागं पुनः चतुर्द्धा विभज्य तेषां चतुर्णामंशानामाकाशादिषु संयोजनम् । एवं तेज

आदीनामपि तदेवमेकैकभूतस्यार्द्धं स्वांशात्मकमर्द्धान्तरं चतुर्विधभूतमयमिति पृथिव्यादिषु

स्वांशाधिक्यात्पृथिव्यादिव्यवहारः (वे० प०) । यथा च पञ्चीकरणं त्वाकाशादिपञ्च-

स्वेकैकं द्विधा समं विभज्य तेषु दशभागेषु प्राथमिकान् पञ्चभागान् प्रत्येकं चतुर्धा

समं विभज्य तेषां चतुर्णां भागानां स्वस्वद्वितीयार्धभागपरित्यागेन भागान्तरेषु संयोजनम्

(वे० सा०) । यथा च तद्भोगाय पुनर्भोग्यभोगायतनजन्मने । पञ्चीकरोति भगवान्

प्रत्येकं वियदादिकम् (प० द०) । तासां त्रिवृतं त्रिवृतमेकैकां करवाणि इति

छान्दोग्यश्रुतेः (६।३।३) पञ्चीकरणोपलक्षणार्थत्वम् । गगने वायौ च रूपाभावाद्

श्रीवाचस्पतिमिश्राय त्रिवृत्करणमेव रोचते। विशदज्ञानार्थं त्रिवृद्शब्दो द्रष्टव्यस्तथा

ब्र० सू० १/१/५ वे० क० त० ।
 
-