2023-03-12 05:01:12 by ambuda-bot
This page has not been fully proofread.
शावेदान्तकोशः
२५५
जाग्रदिति च व्यपदिश्यते ( वे० सा० ) । यथा च - स्यात् पञ्चीकृतभूतोत्त्थो देहः
स्थूलोऽन्नसंज्ञकः । लिङ्गे तु राजसैः प्राणैः प्राणः कर्मेन्द्रियैः सह । सात्त्विकैर्धीन्द्रियैः
साकं विमर्शात्मा मनोमयः । तैरेव साकं विज्ञानमयो धीर्निश्चयात्मिका । कारणे
सत्त्वमानन्दमयो मोदादिवृत्तिभिः । तत्तत्कोशैस्तु तादाम्यादात्मा तत्तन्मयो भवेत्
(प० द० १/३४, ३५, ३६) ।
पञ्चस्कन्धाः बौद्धदर्शने रूपविज्ञानादयः पञ्चस्कन्धाः यथा - तथा रूप-
विज्ञानवेदनासंज्ञासंस्कारसंज्ञकाः पञ्च स्कन्धाः ।.... तत्रेदमभिधीयते योऽयमुभय-
हेतुक उभयप्रकारः समुदायः परेषामभिप्रेतोऽणुहेतुकश्च भूतभौतिकसंहतिरूपः स्कन्ध-
हेतुकश्च पञ्चस्कन्धीरूपः तस्मिन्नुभयहेतुकेऽपि समुदायेऽभिप्रेयमाणे तदप्राप्तिः
स्यात् । समुदायाप्राप्तिः समुदायभावानुपपत्तिरित्यर्थः (ब्र० सू० २/२/१८ शा० भा०)
अत्र भामती- रूप्यन्ते एभिरिति रूप्यन्त इति च व्युत्पत्या सविषयाणीन्द्रियाणि
रूपस्कन्धः। यद्यपि रूप्यमाणाः पृथिव्यादयो बाह्याः, तथापि कायस्थत्वाद्वा इन्द्रिय-
सम्बन्धाद्वा भवन्त्याध्यात्मिकाः । विज्ञानस्कन्धोऽहमित्याकारो रूपादिविषय इन्द्रियादि-
जन्यो वा दण्डायमानः । वेदनास्कन्धो या प्रियाप्रियानुभयविषयस्पर्शे सुखदुःखतद्रहित-
विशेषावस्था चित्तस्य जायते स वेदनास्कन्धः । संज्ञास्कन्धः सविकल्पप्रत्ययः संज्ञा-
संसर्गयोग्यप्रतिभासः यथा डित्थः कुण्डली गौरो ब्राह्मणो गच्छतीत्येवंजातीयकः ।
संस्कारस्कन्धो रागादयः क्लेशा: उपक्केशाश्च मदमानादयः धर्माधर्मौ चेति । तदेतेषां
समुदाय: पञ्चस्कन्धी ।
SPORT
-
-
-
पञ्चास्तिकायः - जैनदर्शने सप्तपदार्थाः सम्मताः जीवाजीवास्त्रवसंवरनिर्जर-
बन्धमोक्षा नाम । संक्षेपतस्तु द्वावेव पदार्थों जीवाजीवाख्यौ । यथयोगं
तयोरेवेतरान्तर्भावादिति मन्यन्ते । तयोरिममपरं प्रपञ्चमाचक्षते पञ्चास्तिकायो नाम
जीवास्तिकायः पुद्गलास्तिकायो धर्मास्तिकायोऽधर्मास्तिकाय आकाशास्तिकायश्चेति
(ब्र० सू० २ । २ । ३३ शा० भा०) अत्र भामती - जीवास्तिकायस्त्रिधा - बद्धो मुक्तो
नित्यसिद्धश्चेति । पुदगलास्तिकायः षोढा पृथिव्यादीनि चत्वारि भूतानि स्थावरं जङ्गमं
चेति । धर्मास्तिकायः प्रवृत्यनुमेयोऽधर्मास्तिकायः स्थित्यनुमेयः । आकाशास्तिकायो
द्वेधा-लोकाकाशोऽलोकाकाशश्च । तत्रोपर्युपरि स्थितानां लोकानामन्तवर्ती लोकाका-
शस्तेषामुपरि मोक्षस्थानमलोकाकाशः । तत्र हि न लोकाः सन्ति । तदेवं जीवा-
जीवपदार्थौ पञ्चधा प्रपञ्चितौ । आस्त्रवसंवरनिर्जरास्त्रयः पदार्थाः प्रवृत्तिलक्षणा: